पृष्ठम्:Dvisandhanam kavya.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। कृतिः कृतावतारांयतिपुण्यनायकैर्विहितावतारदीर्घदेवप्रधानरजातरिपुसंमुखैनरोत्तमै राय- गैचालिता कोटिशिलेव केन वा इव न न अयंते, पूज्यत एवेति भावः ॥ भारती- यपक्षे-अजातशत्रुप्रमुखैयुधिष्ठिरप्रमुखैः, नरोऽर्जुन: अर्घ विघ्नं वारयति निराकरो. तीत्येवंशीलो येषां तैः । 'राशि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुव- तन्ते यथा राजा तथा प्रजा ॥' इत्युक्तेः, नराणां मनुष्याणामघं वारयतीत्येवंशीलैर्वा नरो- त्तमैधीरोदात्तादिगुणास्पदैः कृतावतारा नवा नूतना कृतिः नरोत्तमैः समन्तभद्रादिभि- थालिता कोटिशिलेव केन सुखेनाच॑ते । श्लेषोपमा । • अथापरागोऽप्यपरागतां गतः स पश्चिमोऽपि प्रथमो विपश्चिताम् । अनुज्ञया वीरजिनस्य गौतमो गणाग्रणीः श्रेणिकमित्यवोचत ॥९॥ अथेति ।। अथशब्दो मालवाची । अपि यस्मात्कारणादपगतरागता प्रीतिराहित्य गतोऽत एवापराग एनोमलरहितः, विपश्चितां विदुषां प्रथम आद्योऽपि वीरजिनस्थापेक्षया पाश्चात्यः, गणाप्रणीगौतमो गणधरः श्रेणिकं मगधदेशस्वामिनम् इति वक्ष्यमाणं वीर- जिनस्य वर्धमानस्य चतुर्विशस्य तीर्थक राज्ञया अवादीत् । अपरागतां वाच्यतां गतोऽपि कथमपरागो मलरजोरहितो भवतीति, विपश्चितामाद्योऽपि सन् कथं पश्चिम इति च वि. रोधः । परिहारस्तूक्तः । विरोधालंकारः॥ इहैव जम्बूतरुमालवालवत्परीयुषोच्चैर्भरतेऽन्धिना वृते।। निवस्तुमिष्टास्तिमिताकिंनरैर्नगर्ययोध्यासमहास्तिनाख्यया ॥१०॥ . इहेति ॥ है आर्य, जम्बूतरुमुच्चैः परीयुषा वेष्टितवताब्धिना समुद्रणालवालेन स्था- मकेनेवायते वेष्टितेऽस्मिन्नेव भरते भारते क्षेत्रे स्तिमिता निश्चला नरैः निवस्तुं स्थातु- मिष्य अभिलषिता समहा सोत्सवा आख्यया नाना अयोध्या नगरी किं नास्ति, अपि त्व. स्त्येव ॥भारतीयपक्षे-हे असम एवंमते भारते मिता योजनायामविष्कम्भसमिता किंनरैः यक्षैः, आर्यकिंनरैः प्रधानयक्षैर्वा निवस्तुमिष्टा अयोध्या परैर्यो मशक्या आख्यया हास्तिना नगरी अस्ति । श्लेषालंकारः॥ पुरी पयोधीन्कुलपर्वतानपि प्रसाधयन्ती करशुद्धमण्डला । . बिभर्ति साकेतकगोत्रसूचिता सरस्सु लक्ष्मी प्रतिमा रवेरिव ॥ ११ ॥ पुरीति ॥ करेण सिद्धापेन शुद्धं विटमत्तजनादिरहितं मण्डलं देशो यस्याः सा त. थोक्ता, साकेतं कायति तेन कथयता साकेतकेन गोत्रेण नाना सूचिता साकेतपर्यायेण प्र- सिद्धायोध्या पुरी, पयोधीन्समुद्रान् कुलपर्वतांश्च, प्रसाधयन्ती आत्मगान्कुर्वती सती, करैः किरणैः शुद्धं मण्डलं यस्याः सा, केतकानां गोत्रस संतानस्य सूचिता प्रादुर्भायो यस्याः सकाशात् सा, रवेः प्रतिमा विम्बं पयोधीन समुद्रान् कुलपर्वतांच प्रसाधयन्ती आत्मगान्कु- र्वती सतीव, सरस्सु सरोवरेषु लक्ष्मी शोभां बिभर्ति ॥ भारतीयपक्षे–पुरी हास्तिना, साके- तकानां राजपुत्रविशेषाणां गोत्राय अन्वयाय सुचिता योग्यति विशेषः । श्लेषोपमा ।। Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४&oldid=234460" इत्यस्माद् प्रतिप्राप्तम्