पृष्ठम्:Dvisandhanam kavya.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। ते, 'तमः खलु चलं नीलम्' इति वयनाचलास्तमस्विनः, मनोजवामे कंदर्पानुकूले अघ- पथे पापमार्गे अतिशयेन वर्तमानाः, गुरुभिरुपाध्यायैः, प्रसह्य हठात् , महापथं सन्मार्ग, नीताः प्रापिताः, नरो मनुष्याः । कुशयावलगयासने स्थानकविशेषे उदीरितं दत्तं चेतो यैस्ते, चलाश्चश्चलाः,मनोजवा मनोवेगिनः, मेघपणे नमःस्थले, अतिवर्तिनः उत्मवनशीलाः, वाजिनोऽश्वा अपि गुरुमिरश्ववारैः प्रसह्य महापथं वाखाली नीताः । अतिदाम्यन्ति सुशिक्षिता जायन्ते । श्लेषः ।। प्रभाविरामस्य सपत्नसंततेः शरासनाम्यासपदं किरीटिनः । बहिर्यतोऽद्यापि निचाय्य दूरगं मदं विमुञ्चन्ति शरं न धन्विनः ॥ १७ ॥ प्रभेति ॥ यतः बहिर्षायप्रदेशेऽद्यापि सांप्रतमपि किरीटिनो मुकुटवतो रामस्य श- राणामसने प्रक्षेपेऽभ्यासपदं दूरगं विप्रकृष्टं सपत्नानामरीणां संततेः प्रभवनशीलं निचाय्य आलोक्य धन्विनश्चापधराः शरासनस्याभ्यासे पदं निष्ठा यस्य, शत्रूणां प्रभवनशील दूरगं शरं बाणं न मुश्चन्ति, अपि तु मदम् ॥ भारतीयपक्षे-शत्रुसंततेः प्रभायाः विरामोऽन्तो यस्मात्तस्य किरीटिनोऽर्जुनस्येति विशेषः । श्लेषालंकारः ॥ प्रपासभासार्थनटाश्रमबजैर्जनाकुलैर्भान्ति भृशं बहिर्भुवः । प्रजाः कुतश्चित्परदेशमङ्गतो विलोलिता यां शरणं गता इव ॥ १८॥ प्रपति ॥ बहिर्भुवो वहिर्देशाः भृशमत्यर्थम्, जनाकुलैः । प्रपा जलस्थानम्, सभा नियोगिनां धर्मविचारस्थानम्, सार्था वणिजनानां समूहाः, बहुरूपिणः, आश्रमास्तप- स्विनां मठाः, वजा गोकुलानि, तैः कुतश्चित्परदेशभगतः कस्माधिच्छत्रुमण्डलाद् विलोलिताः कथिताः प्रजाः कारुकादयो जना यां नगरौं शरणं गता इव भान्ति भासन्ते । उत्प्रेक्षा॥ असूययागम्य निशाम्य यां पुरो विलजयाम्भःपरिणामिनी दशाम् । गता इवाभान्ति कुलाद्रिपेशलाश्चरण्युलोलाः परिखाम्बुवीचयः ॥ १९॥ असूयेति ॥ कुलाचलसदृशाः, चरण्युलोला अनिलचश्वलाः परिखाम्बुवीचयः असू- यया परगुणासहनेन, आगम्य आगत्य, यां नगरौं, निशाम्य विलोक्य, पुरोऽन्या नगर्यः, विलज्जया अम्भःपरिणामिनी अम्भसः परिणामः पर्यायोऽस्त्यस्याः तां जलरूपपरिणमन- शीला दशामवस्थां गता इव आभान्ति । उस्प्रेक्षा ॥ ___ इतस्ततोऽभ्रंलिहशृङ्गकोटयो विभान्ति यस्यां पुरि वप्रभूमयः । गजेन्द्रदन्ताहतिगाढगह्वरैगेवाक्षजालैरिव हम्येपतयः ॥ २० ॥ १. अनेन तमसि क्रियावत्त्वस्यैव पूर्वपक्षितत्वेन चलशब्दस्य तमःपर्यायतायां माना- भावाश्चिन्त्यमिदम्. __ opted on Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६&oldid=234462" इत्यस्माद् प्रतिप्राप्तम्