पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
रुक्मिणीहरण ईहामृगः


 सन्धानकः---- इहय्येवे माहवे विवाहो भविस्सदित्ति भणमि[१]

 उद्धवः-( साकूतम् ) सत्यमाख्याति सन्धानकः ।

 रामः-(साकूतस्मितम् ) अयि कृप्ण ! किमद्यापि घिलम्वते । वैशाख एव रुकिमणीविवाहः ।

 कृष्णः-अपि सन्धानक ! निवेदय चेदीश्वराय । आगता एव वयं विवाहप्रत्यासत्तौ कौण्डिनपुरम् ।

 अक्रूरः-कोशाध्यक्षान्समादिश्य दत्तपारितोपिकं प्रेपय सन्धानकम् ।

 सन्धानकः-अयि देच कन्ह ! कह णु देविं देवई परिच्चइअ गदो तत्थ उच्चरामि[२] ? ।

 देवकी-संधाणअ ! रामकन्हा वरपत्तिआ आअण्णिअ पिउच्छाए भविस्सदि परिओसो । किं मए[३]

 सन्धा०--ता इहय्येव वहू तुह पाअवंदणन्थं आगमिस्सदि[४]

 सात्यकी--कोऽत्र विप्रतिपद्यते । एतदेव वधूगृहम् ।

 वयदेवः-वयमेव सन्धानकं दत्तपारितोपिकं विसर्जयामः । भवन्तः सज्जीभवन्तु प्रातःप्रयाणाय । विजये ! आदिश पन्थानम् ।

 प्रती०--इदो इदो देवो, इदो इदो देवी [५]

( इति निष्कामतः )

( नेपटये )

उदपति मदलक्ष्मीर्दन्तिनोऽसुप्य सधः
 समिति पिशुनयन्ती वैरिवर्गस्य भङ्गम् ।
मधुरिपुवरयात्रासत्वरः सीरपाणिः
 कथमिव फलमस्याः प्राप्स्यति व्यग्रचेताः ॥ २१ ॥


  1. इहैव माधवे विवाहो भविश्यतीति भणामि ।
  2. अयि देव कृप्ण ! कथं नु देवीं देवकीं परित्यस्रवा गतस्तत्रोच्चरामि ।
  3. सन्धानक ! रामकृष्णौ वरपत्नीकौ आकर्ण्य पितृश्वमुः भविष्यति परितोपः। किं मया।
  4. तदिहैव वधूम्तव पादवन्दनार्थमागमिप्यति ।
  5. इत इतो देवः, इत इतो देवी ।