देवकी-विजये आसणं संधाणञ्अस्स[१] ।
सात्यकिः'--( अपवार्य ) मन्त्रिशिरोमणे उद्धव ! अक्रूर ! जीने अनेन वचनोपन्पासेन रत्नमालासमानयनेन च हस्तगता हरेः संवृत्ता रुक्मिणी ।
उद्धवाक्रूरौ--( सहर्पोल्लासम् ) साधु साधु ! एवमेवैतत् ।
(नेपय्ये )
आसूत्रितामहह ! कृप्णकृते किमेतां |
उद्धवः-( सहर्पम्) अये ! बोधयति सदुपश्रुतिरियं शिशुपालदूतं, यदि परं जानीते ।
रामः-( सरोपमिव ) प्रियंवद ! ज्ञायतां कोऽयं कस्य मा जिहीर्पति ।
प्रियंवदः-( निष्क्रम्य पुनः प्रविश्य मालतीमालां कृष्णायोपढौकयन्) कन्हएव ! गेन्ह गेन्ह । एसा खु मालईमाला तुह कए मालाआरेण उअणिय्यमाणा केणवि गहिदुमीहिता । पुणो सो मालाञ्आरचंडवआणाहिक्खिविदो पलाइ[२]दो ।
( रामः साकूतं विहस्य उद्धवादीनालोकत्ते )
कृष्णः-( स्वगतं सहर्षम् )
सर्वस्वं कुसुमेपोः कामप्यानन्दसम्पदं दधती । |
उद्धवः-( सहर्पम् ) अयि कृप्णदेव ! विवाहयात्रारम्भसमयसमाग- तेयै मालतोमाला सुनिमित्तस्सृचिका । परिधीयतां द्रागियमव्यया ।
( कृष्णः सहर्प तया करोति )
वसुदेवः-अयि सन्घानक ! कदा पुनर्विवाहोत्सयः ? ।