पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
रुक्मिणीहरण ईहामृगः ।


 वर्त्तः । अहो ! महद्वैमनस्यमायातं जनार्द्दनस्य । कथितं हि मे तदासन्नपरिजनेन ----

किं कथ्यते श्रवण्गमात्रपरिग्रहेऽपि
 दत्तोत्सवा दनुजवैरिणि रुकिमणी सा ।
आलोकितेव निकटाग्निकटीकृतेव
 सोत्प्रासचाटुवचनैरनुमोदितेव ॥ ७ ॥

 तदहं तमेव देवमुपसर्पामि सन्धुक्षयामि रोपानलमस्य चेदीन्द्रदारुणदुर्णयोदन्तदारुणा । ( परिक्रम्य पुरोऽवलोक्य ) अये ! प्रास एवाहं सभासीधम् । (निरूप्य सहर्पम् ) कथं द्वावपीह रामकृप्णौ । अहो ! जगद्विख्याता वन्धुप्रीतिरनयोः | तथाहि-

एके रामं मरकतमया विभ्रते विम्विताङ्गं
 कृष्णं चैके स्फटिकघटिता व्यक्त्तमेवोद्वहन्ति ।
तत्सौभ्रात्रं सहजसुभगं संविदानैर्मनोज्ञैः
 सौधस्तम्भैरपि किमनयोः कल्पितः संविभागः ॥ ८ ॥

 कथं प्रतीहारमान्नपरिजनावेतौ ! । किमेतत् ! । ( कतिचित्पदानि दत्वा )

 किं पुनरिमौ क्रोधाविप्टाविव दृश्येते । तथाहि--

कपोलौ स्वेदाम्भःकणकवचितो दृष्टिरम्णा
 वपुस्ताम्रच्छायाच्छुरितमघरौ वेपथुमयौ ।
प्रलम्वघ्नस्येत्थं भवति मदयोगेऽपि रचना
 विना क्रोधोत्सेधं न पुनरमरारातिजपिनः ॥ ९ ॥

 तदुपसर्पामि । ( इत्युपसर्पति )

 प्रती०-( सप्रश्रयम्) अयेि देवौ रामकृप्णौ ! प्रणमति युवामक्रूरः ।

( अक्रूर प्रणमति )

 कृष्णः--( सालरयमिव ) आसनम् ।

( प्रतीहारः आसनमुपनयतेि )

 अक्रूरः--(सप्रश्रयं ससम्भ्रमम्) किं पुनरत्र भवतोर्वैमनस्पमिव पश्यामि ? ।

 कृष्णः--( सावज्ञम् ) न किञ्चित् ।

 रामः-(सरोपविशम् ) अपि अक्रूर ! घीरकृप्ण एव कृप्णः । आकर्णयतु भवान् ।