पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
वत्सराजप्रणीनरूपफसङ्ग्रहे


गोवर्द्धनमचलेन्द्रं तृणलयववुद्धचैव यः किलातुलपत् ।
वीरस्तृणाय कृप्णं तमेव वन मन्यते रुक्मो ॥ १० ॥

 अक्रूरः-( साश्चर्पम् ) म्क्मी शार्ङ्गपाणौ गर्वायन इति न प्रत्येनि हृदयम् ।

 कृष्णः--(सावलेपस्मितम् ) प्रतीहार ! निवेदय यथावृत्तम् ।

 प्रती०-इह मया कृप्णदेवे समागच्ध्छति विजूयतां देव इत्युदीरितम् । ततः कश्चिदिह वहिःस्थितो वन्दी ससंरम्भं वभापे ।

आच्छाघ देवभणिर्ति भुवि भव्यभोगान्
 रे भूभुमुजो भजत मुक्तमुधाभिमानाः ।
सरंव्धरुकिमशरगोचततां गतानां
 युष्माकमस्तु सुरसद्मनि देवशब्दः ॥ ११ ॥

अपि च-
 दावाग्निमालिङ्गति कः प्रमत्तः ।
  कृप्णाहिना क्रोडन्नि हेलया कः ।
 प्राणाः प्रियाः कस्य न जीवलोके
  को रुकिमणं रोपयने रणाय ॥ १२ ॥

 अक्रूरः--( ससंरम्भम्) ततः किमुक्त्तं रामेण ? ।

 प्रती०----- पक्ष्चादिहायातं प्रलम्बारिणा कृप्णवीरेण किमनुक्त्तमासीत् ।

 अक्रूरः--( सौत्सुक्यम् ) किमुक्तम् ? ।

 प्रती०--एवमुक्तं समानय तं वीरं समराङ्गयम् ।

परमानन्दकृद्दानं युगपत्तव रुक्मिणः ।
द्रविणेन कृपाणेन करिप्ये समराङ्गणे ॥ १3 ॥

 अक्रूरः:---साधूक्त्तं कृप्णदेवेन । अहं पुनर्न प्रत्येमि मुरारौ रुक्रमी वैरायते ।

छागो मुहुवैल्गति गाढगर्वक्ष्छ्गन साद्ध प्रसरत्प्रमोदः ।
कण्ठीरवं वीक्ष्य सशव्दकुण्ठं को वेत्ति वैक्लब्पमुपैति कीदृक् ॥ १४ ॥

 वन्दिनस्तु वन्द्या एव । किन्नैते घदन्ति । अयि वीर शिरोमणे कृष्णदेव ।