पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
वत्सराजप्रणीतरूपफसङ्गहे


 ( सहर्षम् ) वयस्य ! अथ किम् ? । ( पुनराकाशे ) एवमाह भवान् ।

 साहु वअस्सु साहु! पाचिदं मए तुह मित्तीए अद्धं[१] फलूं जं तए चंद॒सेणाए परिमुसिदं सत्र्वस्सं । अहं खु तीए हआसाए हारदत्तदिन्नहिअआए णिाद्धणीकदोम्हि 'तइआ उण समग्गं फलं भणिदव्वं जइआ हारदत्तो तए कर्हिपि संकडे पाडिदव्वो ।

 चयस्य ! प्रतिपालय कियन्तमपि कालम् । तदपि फलितप्रायम् । (पुनराकाशे) एवमाह भवान् ।

 परमं खु एदं पहरिसट्ठाणं ता वित्थरेण णिवेदेहि । जहा तए चंदसेणा परिमुसिद[२]त्ति ।

 आकर्णयतु मे वयस्यः । उपढौकितो मया हारदत्तहारस्तस्यै । उक्त्तं च । सामिणि दिट्टिआ वड्ढसि । जिदं जूअम्मि सामिणा हारदत्तेण हारद्त्तेण सअलजूदअरसव्वस्सं । अहं खु तुग्रं वद्धाविदुं पेसिदोम्हि[३] । ततश्च सा--

किमयममृतवाप्यां रनानकेलिप्रसङ्गो
 घटयति किमु वृर्ष्टि माकरन्दीं वसन्तः ।
किमु समुपगताऽहं वैधवीं राजधानी-
 मिति हृदि हरिणाक्षी हारमामुच्य मेने ॥ २१ ॥

 प्रवृत्तश्च तढ्रहे हारदत्तागमन इव हारमाघ्रागमनेऽपि महोत्सवः । उत्तश्चास्मि तदम्वया मायावत्या ॥ वत्स ! वत्स ! अम्हाणं खु अज्ज मइरापराहीणो परिअणो । एदं अम्ह सच्वस्सं तुह य्येव । तो अप्पमत्तेण भोद[४]व्वं ।

 ततो मयाऽभ्यधापि ।

 णात्थि एत्थ संदेहो । अप्पमत्तोय्येव चिट्ठ्मि[५]


  1. साधु वयस्य साधु । प्राप्तं मया तव मैत्र्या अर्द्धे फलं यत्त्वया चन्द्रसेनायाः परिमुयितं सर्वस्वम् । अहं खळु तया हताशया हारदत्तदुत्तहृदयया निर्धनीकृतोऽस्मि ! तदा पुनः समग्रं फलं भणितव्यं यदा हारदत्तस्त्वया कुत्रापि संकटे पातितञ्यः ।
  2. परर्म खलु एतत् प्रहर्पस्थानं, तद्विस्तरेण निवेदय यथा तेन चन्द्रसेना परिमुपितेति ।
  3. रवाभिनि । दिप्ट्या यर्धसे । जितं घूते स्वामिना हारदत्तेन सकलघूतकरसर्वस्वम् । अर्ह स्वलु त्वांं वर्द्धापयितुं प्रेपेितोऽस्मि ।
  4. अस्माकं खलु अद्य मदिरापरधीनः परिजनः । एतदस्माकं सर्वत्वं तदैव तदप्रमत्तेण भवितव्यम् ।
  5. तास्त्यत्र सन्देहः, अप्रमत्त एव तिष्ठामि ।