पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
कर्पूरचरितभाणः

 अथाहं तद्गहे मत्तसुसपरिजने अस्वामिक इव प्रकामं सर्वस्वमादायापक्रान्तोऽस्मि । ( पुनराकाशे )

 वयस्य चन्दनक ! किमेवं कुप्यसि ? ।

 कीस तण्ए मह पडिवक्खस्स हारदत्तस्स पेसणं कदं[१]

 प्रसीद् प्रसीद । नहि नहि मया तत्प्रेप्येणैतदध्यवसितम् । आकर्णय आकर्णय ( सोपहासम् ) जानात्येव तदा भवान् ।

ग्रन्थिच्छ्टाविकटजीर्णपटैकवित्तः
 स्कन्धर्पितव्दिगुणवाहुयुगोत्तरीयः ।
क्रोधोपभुक्त्तकठिनीधवलाधरक्ष्री-
 र्घूतप्रभोरहमभूवमतिप्रसादी ॥ २२ ॥

 ताद्दग्विघचेष्टितक्ष्चाहं गतो माणिभद्रस्यायतनम् । एवमात्थ ? । किं तुह जूदअरस्स माणिभद्देण[२] ? ।

वयस्य मैवम् ।
  रूपान्तरं पुरारातेः प्रत्यर्थिदलनोद्धुर ।
 विनिद्रयति भद्राणि माणिभद्रः सदैव नः ॥ २३ ॥

 उपालव्धक्ष्च मया दौर्गत्योपतसेन भगवान्माणिभद्रः ।

पूजोपहारविनियोगपरम्पराभि-
 रायासयन्ति च धनानि च संहरन्ति ।
अश्शाम्प्रयं दृढभपि द्रढयन्ति पाशं
 विश्चप्रलम्भनपरा हि सदैव देवाः ॥ २४ ॥

 तन्ममार्पय प्रागर्पितपूजोपहारान् । माणिाभद्र' ! दृष्टा त्वया मदीया भक्तिः । अभक्त्तिरपीदानीं दृश्यताम् । इति परुपाक्षरमुदीर्य विश्रान्ते च मपि ( इत्यर्द्धोक्त्तौ दीर्घमुप्णं च नि श्वस्य वैक्लव्यं नाटयनि )

( पनराकाशे )

 वयस्य चन्दनक ! किमात्थ ? । किं उणं तुमं य्येव एवं विहलोसि[३]


  1. कथं त्वया मम प्रतिपक्षस्य हारदत्तस्य ग्रेपणं कृतम् ? ।
  2. किं तव घूतकारस्य माणिभद्रेण ? ।
  3. किं पुनस्त्वमेव एपं विहृलोऽसि ?