विचित्ररूपामनुयन्धिरागां |
सखे कुजम्भ ! उपनय मे पीयूपभाजनम् ।
( कुजम्भः उपनयति )
वलिः--( पीयूपनमादाय कन्यावेपं वैकुण्ठं प्रवि )----
पीयूपमेतद्दपिते ! गृहाण |
( इति पीयूपपात्रमग्रतो धारयति)
कन्यारूपो वैकुण्ठः-(सकरुणं सगद्गदमिव )समरविजयत्थं पउत्ये अघ्चउ( इत्यर्घोक्त्ते सलज्जमिव सगद्गदम् ) दुवे तिण्णि मुट्टुत्ताइं पडिवालइस्सं । पुणो एदं णिरुवउत्तं तणुं पावअसमागंमि परिच्चइस्सं[१] ।
वलिः-(ससन्भ्रमम्.)सुभ्रु! क इदानीं शोफावसरः ? आगतप्रायोऽहम्।
( इति त्वरितपदं निष्त्र्कमति )
स्त्रीरूपो वैकुण्ठः-( स्वगदं सहर्पम्) सिद्धं समीहितेन महाप्रत्यूहेनेव गनमनेन । तदलमिहस्थितेन । तदेवं तावत् । ( प्रफाशं सलज्जमिव ) पिअसहि ! करेहि हत्ये एदं अमअभाअणं । णिउणिआ खु तुमं । णहु कहवि तुमाहिन्तो एदं पत्र्भट्ठं भोदि । पुणोवि तए एदं आणिदं[२] ।
( वैननेयस्तया करोति )
शुक्रः-( स्वगतं साशङ्कम्) आः ! परकरे भवति पोयूपं विशङ्कते च ममात्मा तत्किमत्र करवै । भवतु किमनेन वलेरेव दुर्विलसिनमिदम् ।