पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
वत्सराजप्रणीतरूपकसङ्ग्रद्दे

 वैकुण्ठः--( स्वगतम् ) अलमिदानीं विलम्वेन!( अनुस्मृत्य ) । विद्रवाय पावकमानयामि । ( इति पावकस्मरणमभिनयति )

 शुक्रः-- (समन्तादचलोक्य ससम्भ्रमम् ) आः किमतेत् ?

विशालज्वालाभिः कवचयति दिकूचक्रमचिरा-
 न्महाधूमस्तोमैर्जनयति नभः पीवरतरम् ।
अतिक्काथादूर्द्ध तरलयति च क्षीरजलधिं
 विना कल्पापायं प्रसरतितरां कोऽयमनल: ? ॥ १३ ॥

 अपि च---

धूमस्तोमकदर्थनादिघ गतं कुत्रापि तिग्मत्विपा
 तत्कृत्यः क्रिपते तूदेप शिखिना शश्वत्प्रकाशः स्वयम् ।
ज्वालाजालपरम्पराभिरनिलव्याधूणिंनाभिर्चला-
 द्भूयो विश्वमिदं हिरण्मयमहाव्रह्माण्डभाण्डायते ॥ १४ ॥

 तत्किमत्रोचितम् ? ।

 वैकुण्ठः--पिअसहि णिउणिए ! । पात्थि तस्स सुहअस्स भइं । ता एहि जलणपसंगेण अत्ताणं कअत्थं करेम्ह[१] । ( उभाचुतिष्टतः )

 शुक्रः-( स्वगतं साशङ्कम् ) अहोऽस्याः पूर्वानुराग एव मरणान्तं प्रेम । गृहीतामृतैव चैपा पावकप्रवेशमारभते । तद्द्वयमपि न मया परिरक्षिनम् । भवतु वारयामि । ( प्रकाशम् ) अयि कल्याणि ! किमकल्याणमिदमकस्मादारभ्यते ? ! प्रतिपालय कतिचिन्मुह्रर्त्तान् ।

 वैकुण्ठः-- ( सविपादं सलञ्चमित्र ) अघ्य ! किं अणय्पोचिदं मन्तेसि ! एवं य्येव तस्सि तुद्दसिस्से वद्धरागाए मह उचिदं भोदि[२]

 शुक्रः-अयि मुग्घे! तवामृतस्य च रक्षायै त्वत्समक्षमेव दानवेक्ष्वरेणाभ्यर्धितोऽस्मि । तद्यदेि वार्यमाणा न निवर्त्तसे तद्ग्निस्तम्भमपि करिप्ये ।

 वैकुण्ठः--( स्वयतम् ) हस्ते गतं तावदमृनं संवृत्तम् । तदिदानीमस्यापि पश्यामि कौतुकम् । (प्रकाशम् ) करेंदु अज्ञ्लो जं उचिदं भोदि[३]


  1. प्रियसखि निपुणिके! नास्ति तत्य मुभगस्व भद्रम् । तदेहि ज्व लनप्रसङ्गेन आत्मानं कृतार्थ कुर्मः ।
  2. आर्य ! किमनीयोंवितं मन्त्रयसि ? !। एवमेव तस्मिन् त्रुटितशीर्पे वद्वगगाया ममोचिनं मवति !
  3. करोनु आर्ग्रः यदुचितं भवति ।