कुजम्भः- ( उत्तरीयमासनवत्कृत्वा ) इदमलङ्करोतु दानवेन्द्रः ।
वलिः--( उपविश्य सहपोंत्क्रठं स्वगतं साश्चर्य )
अनुभूतपूर्वमित्थं स्त्रीरत्नं न खलु वेधसः शिल्पे । |
(प्रकाशं सखीरूपं वैनतेयं प्रति) भद्रे ? केयं भवद्भर्तृदारिका ? । किं निमितमुत्ताम्यति ? ।
निपुणिकावेपो वैनतेयः-महाभाअ ! एसा खु कमलाए कणिट्ठा समुद्ददुहिदा ! जदोपहुदि इमीए कोवि अब्भुदरूवो सुहओ सिविणए' पुलोइदो तदोपहुदि अव्भंतरविअंभमाहुड्डामरवेअणाए णिविडविलयावगुण्ठणा किलम्मदि । परं परमसाहसिअव्च ण वीहेदि मरणादो अण्प्गहा--
अग्याइ करुणअं का झंपइ का मलयगंधवाहम्मि । |
[१] ॥ ४ ॥
( साकृतरिमतम्) संपइ उण तुम्हाण दंसणादो पहुदि किंपि किंपि आसर्त्ति व विहावेमि । का मुणेदि अत्थि तुम्हाण सिविणयदिट्ठसारिक्खं ण वेति[२] ।
( निपुणिकावेपं वैनतेयं तर्जयन्निव तिर्यगवलोकनैः सव्रीडमधोमुखं तिष्टति )
वलिः-( सौत्सुक्यं सोत्कण्ठम्)--
मामनुगृहाण मुग्घे ! दृक्पातैरमृतपाटवग्रहिलैः । |
(पैकुण्ठः अवाड्मुख एव सस्मितं पश्यति )
वलिः-( सहपोंत्कण्ठ म् ) ---
लोचनसरोजमाला प्रेमगुणेनेयमद्भुता ग्रथिता । |
- ↑ मद्दाभाग ! एषा खलु कनिष्टा समुद्रदुहिता यतः प्रमृति अनया कोऽपि अद्भुतरूपः सुभगः
स्वने दृष्टः ततः प्रभृति अभ्यन्तरविजृम्भमाणदाहोट्टामरवेदनया निविडविलयावगुण्ठना क्काम्यति । परं परमसाहसिकेव न बिभेति मरणात् । अन्यथा-
उर्घादि करुणकं का झम्पति का मलयगन्धवाहे ।
का जीविते सनृष्याा कलकण्ठहूध्वर्नि शृटणोति ॥ - ↑ सम्प्रति पुनः युष्प्नाकं दर्शनाव्प्रमृति किमपि किमपि आसर्क्त्ति विभावयामि । का ज्ञानीते अस्ति युप्माकं स्वप्नदृष्टसादृश्यमस्ति न वेति ।