कुजम्भः--(आव्राणमभिनीय साश्चर्यम् ) अयि दानवेश !
नायं विपिनलतानां सहस्रशाःपरिचितो हि तद्गन्घः । |
तदुत्थाय निरूपयामि तावत् । ( तथा कृत्वा सहर्षाश्चर्यम्) दानवेश ! एह्येहि कृतार्थय चक्षुपी । अद्यप्रभृति ते सफलं जन्म ॥ अदृष्टपूर्वं पश्य कन्यारत्नम् ।
( वलिः सोत्कण्ठमुत्तिष्टति )
वैन०-( अपपार्य ) वैकुण्ठ ! अभिनीयन्तां विप्रलम्भानुभायाः ।
वैकुण्ठः-( स्वगतम् )
तैस्तैः पूथुक्ष्वसितपाण्डिमतानवाद्यै- |
वैन०-पियसहि मोहणिए ! किं उण अत्ताणं अणवेक्खिय एवं उत्तम्मसि ? । साहेसु मे शिाविणाअदिट्ठ तं सुहअं [१]।
मोहनिका-णिउणिए ! अलं साहिदेण । णहु णहु तेण सारिक्खेण तिहुअणम्मि कोवि अत्थि[२] ।
वलिः-( आकर्ण्य सोत्कण्ठम् ) किं पुनरित्धमद्भुतसम्भावनया सुकृती सुदृशा कृतार्थाक्रियते ।
कुजम्भः-एहि तावत्प्रकटीभवावः ।
( उमावुपमर्पतः )
निपुणिका--( सहमोत्याय सप्रश्रयम् ) मद्दाभाअ! पणामोभट्टिदारिआए [३]।
वलिः--{ सगन्दम् ) अभिलपितमासादयतु भवद्भर्तृदारिका ।
वैकुण्ठः-( स्वगदम्) गद्भदगलिताक्षरापि सम्पूर्णेयमुपश्रुतिर्भविष्यति ।