( ततः प्रविशति कपटकामिनीवेपो चैकुण्ठः सखीवेपो वैनतेयश्च )
वैनतेयः-( सहर्षम् ) अपि जनार्द्दन ! सकलजगद्रूपस्य केयं भवतोऽद्रुतरूपनिर्माणनैपुणे क्ष्लाघा ? । अद्य पुनर्यदिदं भवना वनितारूपमाविष्कृतं नहि तद्भवनाप्यनुभूतपूर्वम् । किं पुनरयं पुरुपशून्ये वेलावने निकुञ्जे निरर्थको भवता सफलीकृतमदनप्राक्त्तनसुकृतपरिपाको हेवाकः प्रसार्यते ? । तथाहि-----
दृशोर्द्वन्द्वं खेलत्यलसमलसं कर्णसविधे |
वैकुण्ठः-सखे वैनतेय ! अर्थक्षृङ्गारोऽयमद्भुतो महतेऽर्थाय प्रगल्भते । हेवाकाभिनयं चात्राकस्मिकपुरुपागमनशङ्कया प्रसारयामि ।
वैन०-( ससम्भ्रमम् ) कथं शब्द इवेह क्षूयते ! । न्नृनमायाति कश्चित् ।
वैकुण्ठः-( साशङ्कम् ) सखे वैनतेय ! तदितःप्रभृति योपिद्भावाभिनयार्थश्मावाभ्यां प्राकृतभापया तदनुरूपः कृनार्थीकृनकुसुमचापः संलापः क्रियताम् ।
वैन०-( पत्रान्तरालैरालोक्य अपवारितकेन ) आयात एव सानुचरः कश्चिन्महानुभावः पुरुपविशेप ।
( ततः प्रविशति वलिः कुजम्भश्च )
वलिः--( सपरितोषम् ) सखे कुजम्भ ! साधु साधु भवता कृर्त, पन्महता नैपुगेन पीयूयमानीोतर्मं । किं पुनः पीयूपं लब्धमप्यलब्धमेव, यन्मया न समासादिता जलधिकन्यावमानिलावण्या कापि कन्या ।
कुजम्भः--( स्वगतं सजुगुष्सम् ) अहो ! अस्प मदनमोहान्घता, पदयममृतं कामिनीसमागमादधरमवधारयति । ( प्रकाशं सप्रश्रयम्)तदपि न भवतो वळवद्भाग्यस्य वलेर्द्धष्प्रापमवधारयामि ।
वैकुण्ठः-( स्वगतं सोपहासम्) द्वयमपि दुप्प्रापं भविप्पति ।
वलिः-सखे कुजम्भ ! किं पुनरितो मृगमदामोदः प्रवर्त्तने ? ।