पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
वत्सराजप्रणीतरूपकसङ्ग्रहे


 वासु०-अपि चालयत पुनर्मन्थाचलम् ।

( सर्वे तथा कुर्वन्ति )

 वासु०-स्थीयतां स्थीयताम् पुनः किञ्चिदायाति ।

( सर्वे स्थिरा भवन्ति )

 वलि-( विलोक्य ) अयि वासुदेव ! व्यर्थमिदानीं संवृत्तं मन्दरावर्त्तनं, यदिदमवस्तुभूतमिव किञ्चिन्निःसरति ।

 वासु०--( स्वगतम्.) व्यर्थमेव भवनां मन्दरावर्त्तनम् । अवस्तुभूतं च सर्वं भयतां भविप्यति ।

 इन्द्रः---- साधूक्त्तं दानवराजेन । तथाहि ----

प्राणमारुनहतोल्लसदूर्घ्व-
 क्षीरसीकरकृतोत्करवृष्टिः ।
वार्द्धिमध्यगतपर्वतक्षृङ्गा-
 द्वयाकुलः स्फुदमुपैति हयास्यः ॥ ४२ ॥

 तदघस्तुभूत एवायम् ।

 वासु०-निर्गच्छतु निःशेपस्तावत् ।

( ततः प्रविशत्युञ्चै.श्रवाः)

 वासु०-(विलोक्य स्पगतम् ) अये ! अयं हपराज उञ्चैःश्रवाः सर्वलक्षणसम्पूर्णः श्रूयते । तदेवं तावत् । (प्रक्राशं सपरिहासम्) प्रभो शम्भो ! सर्वलक्षणसम्पूर्णोऽपमश्वमेधपोग्यो हयो दोयतां भगयते हिरण्पगर्भाय ।

 ब्रह्मा-( सपरिहासम् ) अहो ! अस्मासु हरेर्हयप्रतिग्रहं कारयितुमुपचिकीर्पा ।

 महेशः--( सहर्षे विद्दत्य ) अयि कृप्ण ! सेनाङ्गत्वादपमपि हस्तिसविधमघ्यास्ताम् ।

(उञ्चैःश्रवास्तथा करोति )

 कृष्णः-( सोल्लासम्) अये भ्रमयन्तु पुनर्मन्दरं भयन्तः ।

( देवा सुरास्तथा कुर्वन्ति )

 धनदः-(साश्चर्ये सवितर्कम्) अये ! मथनं मन्थरीकृत्य दृश्यतां ताचत्।