पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
समुद्रमथनाभिधानः समवकारः

प्रहादनं द्रव्यमुदेति किञ्चि---
 दालक्ष्यवृत्ताकृतिसंनिवेशम् ।
यत्फान्तिपूरप्रसरेण वार्द्धिः
 मन्थक्रुधा द्यामधिरोहतीव ॥ ४३ ॥

( ततः प्रविशति चन्द्रः )

 इन्द्रः-- (सहर्पे सवितर्कम् )

किमपममृतकुम्भः किन्नु मन्थापमर्द्द-
 व्यथितजलघिदुग्धस्नेहपिण्डोऽयमीद्दक् ।
किमिदमननुभूतं भूतमाह्लादि किञ्चि -
 त्किमिय नहि विचित्रं स्यात्पयोधौ यिचित्रे ॥ ४४ ॥

 कृष्णः-(स्मरणमभिनीय स्पगतं सोत्कण्ठम्)

तञ्चित्रद्दष्टं किमु वक्त्रमेत-
 दाविर्भवत्यम्चुनिघेः सुतायाः ।
अपि श्रुतं यत्कुसुमायुधस्य
 मृत्युक्ष्त्रयत्वादमृतं जिगाय ॥ ४५ ॥

 ( निपुणं निरूप्य ) अये ! कलङ्ककलुपमन्यदेव किमपि । न तद्वत्र्कम् । ( सखेदं निःश्वस्य )

प्रियामुग्याशया दृष्टिर्धाविता मेऽत्र निर्मले ।
द्रागेवापसरत्येपा कलङ्कगलहस्तिता ॥ ४६ ॥

 ( निरूप्य ) नुनमनेन पीयूपमयूस्वेन भवितव्यम् { ( प्रक्राशम् ) प्रभो ! शङ्कर ! सुधाकरोऽयं सम्प्राप्सः ।

 चन्द्रः-(मद्देशमालोक्य सहर्षे स्पगतम्) दिष्ट्या प्रमथितो मे पिता पाथोधिर्यदेप महामुनिभिरपि दुरासदसन्दर्शनो नयनपथमवलीर्णे भगवान्प्रमथनाथः ।

 महेशः--( सुधांशुमालोक्य स्वगतम्) अये महाफलः संवृत्तः पाथोधिमथ नायासो यदयमासादितो यज्चनां परिवृढः । (प्रकाशय्) अयि कृष्ण !

फकुभि फकुभि चर्पन् शैत्यगर्भान्गाभस्ती- ,
 न्मथनजनितखेदं खण्डयन्यः प्रकामम् ।
अधिवसतु मुहर्त्त वार्द्धिवेलावनालीं
 द्विजपरिवृढ एप ग्रामणीः प्रीणमानः ॥ ४७ ॥