कृष्णः-( सद्दप स्यगतम् ) साधु सर्वज्ञ ! साधु, यत्किमपि न विशिष्टं
सन्दिष्टवानसि । तदेवं तावत् । (प्रफाशम् ) अयेि दानवेशा ! यद्यद्विनिःसरति
सागरात्तत्तद्द्यापि सागरगर्भ एव तिष्टतीति सम्प्रधार्यताम् । वस्तुजातं च
वेलावने पालयन्तु दिक्पाला अग्निपमनिर्त्र्क्षतयः । सिद्धे समुद्रमथनोद्यमे र्भगाज्ञपा विभागोऽस्तु ।
वलिः-पथा रोचतेऽच्युताय ।
कृष्णः-अयि भगवन्तो वेदाः ! समुचितेऽत्र वेलावने व्यपनीपतां तावदयं मथनायासो दिक्पालशुक्ष्रूपया ।
अग्न्यादिदिक्पालाः-(सप्रश्रयम् ) इत इतोऽत्र भवन्तो वेदा।
( परिक्त्रम्य सर्वे तथा तिष्टन्ति )
कृष्णः-( सोल्लासम् ) अये देवासुराः ! पुनर्विलोडयत गाढम् । (सर्वे तया कुर्वन्ति )
कृष्णः-तिष्ठत तिष्टत तावत् ।
( सर्वे तिष्टन्ति )
कृष्णः-(निरूपणामभिनीय साश्वर्यमूं) गरीपान्कश्चिदिदानीमायाति ।
आयात्यर्वाग्वीचीमालास्फूर्जत्फेनावेगाभोगात् । |
( ततः प्रविशत्यैरावतः )
इन्द्रः-( विलोक्य सविस्मयम्)--
दम्भोलिघातचकितः प्रसभं पुरा यः |
कृष्णः-(स्वगतम्) दिष्ट्या नूनमपमैरावतः करी । ( प्रकाशम् ) अयि परमेशान ! निर्गतोऽयं गजेन्द्रस्तद्विलोक्यताम् ।
महेशः-( सहर्षस्मितम्) राजत्वमर्हति कुञ्जरविशेपोऽपम् । 'अधितिष्ठतु शिशिरशिशिरां वेलावनतरुच्छायाम् ।
( ऐरावतस्तथा करोति )