पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
इास्यचूडामणिः प्रहसनम्


यास्माकं परमकारुणिकानां परमो घर्मः । अवश्यमनुग्रहीतव्यौ वत्सी । तदुतिष्टताम् !

 उभौ- ( उत्याय )जीवदु जीवदु अज्जो[१]

 ज्ञान०-(सगर्वम्)

मद्क्षूभङ्गिसमादिष्टा कुम्भदासीच भूरियम् ।
निघानकृम्भसम्भारं गेहे कस्य न दौकयेत् ॥ १० ॥

 कौण्डिन्य ।'समानय लाङ्गलीरसम् ।

 कौण्डिन्यः-किं तेण[२]? !

 ज्ञान०-किं न श्रुतं त्वया ?--

रसेन लाङ्गलीोयेन समन्त्रेणाञ्जितेक्षणः ।
निघनं वा निधानं या धीरः समधिगच्छति ॥ ११ ॥

 कोकिलः-भअवं ! णिहाणदो किं णिहणं गरुअं[३] ? ।

 ज्ञान०-मात्राहीनमपि सर्वदुःखप्रशमनं निघानान्निधर्न श्रेयः ।

 कोकिलः-ता अम्हाणं तंय्येव भोदु[४]

 ज्ञान०-अध किं ? । त्वरय कौण्डिन्य ! त्वरय ।

 कौण्डिन्यः--ज्ञंआणवेदि भवं । (इति निप्कम्य पुनः प्रविश्य ) एदं तं गेन्द्ददु उअज्झाओ [५]

 ज्ञान०- ( आदाय ) कस्पाक्ष्णोः प्रथमं दीपतामञ्जनम् ? ।

 कोक्लिः-मह दाव[६]

 पारावतः-( उपसृत्य ) मह दाव[७]


  1. जीवतु जीपतु आर्यः ।
  2. किं तेन १ ।
  3. भगवन् ! निधानतः किं निधनं गुरु ? ।
  4. तदस्माकं तदेव भवनु ।
  5. यदाज्ञापयति भवान् । एतत्तद्रुद्दातु उपाप्यायः ।
  6. मम तावन् ।
  7. मम तामत् ।