पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
हास्यचूडामणिः प्रहसनम्


 मुटूरकः-( सहसोत्थाय ) आणेमि कुसुमाइं[१]

 शिष्यः-भद्द ! सुवण्णेहिं रञ्अणेहिं वा केवलीपुत्थअपूआ भोदि[२]

( कपटकेलि: ज्ञानराशेर्मुखमीक्षते )

 ज्ञान०--( स्वगतं सपरितोपम्) अर्हति केवलीरहस्यशिष्यत्यं कौण्डिन्यः । ( प्रकाशम् ) भद्रे ! एवमेवैतत् ।

क्ष्रद्धालुरात्मनः कुर्याल्लाभाल्लाभाल्लाभनिरुपणम् ।
अभ्यर्च्य स्वर्णरत्नाभां केवलीं मनुरव्रवीत् ॥ २२ ॥

 अभावे कुसुमानि भवन्तु ।

 कपट०--अय्य! मुक्ख्रपक्खो य्येव कीरदु[३] । (इत्यङ्गुलीयकेन पुस्तकं पूज्ञयति)

 ज्ञानः-कौण्डिन्य ! गृहाण। दास्यसि विभज्य भिक्षुभ्यः ।

 शिष्यः-(स्वगतम्) हआस ! जाणेमितुमं । अहरेहिं भणसि, ण हिअएण [४] । (प्रफाशम् ) जं उअज्झाओ आणवेदि । ( इत्यङ्गुलीयकं गृह्वाति )

 ज्ञान०-(पुस्तकमुद्धाट्य)अये!ग्रहकुण्डलींतावदालिखामि । ( लिखनाभिनयं कृत्वा )

यदि पश्यति रविसृनुर्विशस्थानस्थितं व्यतीपातम् ।
यदि राहुः शकटभेदी स भवति केतुश्च मेपस्थः ॥ २३ ॥

रविरङ्गारकलग्ने भवति यदा पापक्ष्यमाणश्च ।
अर्थशरीराभावं प्रश्ने ब्रूयात्तदा नियतम् ॥ २४ ॥

 न चायमिह योगः । तदस्ति तावल्लाभो नष्टस्य वस्तुमः ।

 कपट०-( सहर्पम् ) अय्यस्स पसाएण[५]

 शिष्यः-( सचमत्कारम् ) अहो । उअज्झाअंस्स विज्ज्ञामाहप्पं । सअलाओ वि सालिहोत्तगाहाओ कैठे किदाओ[६]


  1. आनयामि कुसुमानि ।
  2. भद्र,!सुवर्णै रत्नै. वा फेवलीपुस्तकृपूज्ञा भवति ।
  3. आर्य! मुख्यपक्ष यव क्रियताम् ।
  4. हताश ! जानामि त्वामधरैर्भणसि न हृदयेन । यदुपाध्यायं आज्ञापयति ।
  5. आर्यस्य प्रसादेन ।
  6. अहो उपाध्यायस्य विघामाहात्म्यम् । सकला अपि शालिद्दोनगायाः कण्ठे कृताः।