पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
वत्सराजप्रणीतृरूपकसङ्ग्रहे


 मुद्गरकः-अहंपि पणमामि[१]

 ज्ञान०-उभयोर्भद्रमस्तु । आस्यताम् ।

( उभाचुपविशतः )

 कपट०-( सप्रश्रयम्) भअवं ! अज्ज मे रअणीए मुसिदं सव्वस्सं अप्पावेदु भवं[२]

 शिप्यः-( ससम्भ्रमम्) आः! किं मन्तीअदि । अज्ज रयणीप मदं मोत्तूण ण कर्हिपि गदो उअज्झाओ[३]

 कपट०-( कर्णौ पिधाय ससम्भ्रमम्) सन्तं पावं । णाणसत्तीए चोरं मुणिऊण अप्पावेदुत्ति मए मंतिदं[४]

 ज्ञान०-( सस्मितम् ) कौण्डिन्य ! तिष्ठ तिष्ठ । ( कपटकेलिं प्रति ) भद्रे ! अनुचितेयमस्माकमेचंविघा विद्या ।

 कपट०-( सप्रश्रयम्.) `भअवं करुणारससाअरे तुम्हे मोत्तूण को अन्नो अम्हारिसस्स अत्थीअणस्स सरणं । पत्तो अ सो अत्थसंचओ तुम्हाणं ययेव साहीणो भविस्सदि[५]

 ज्ञानगाशिः-( स्वग॒तं॒ सद्दयैम् ) स्वीकृतस्तावदस्माकमनया मनोरथः । तथापि निरीहतामेवाभिनयामि

न जानामि न गृह्णामि मम किं चिन्तयाऽनया ।
अनङ्गीकार एवाऽयं दाभ्भिकानां महाफलः ॥ २१ ॥

 ( प्रकाशम्) कल्याणि ! त्वदभीष्टनैव कृनकृत्या वपम् । कौणिडन्य । अर्पय केवलीपुस्तकं, करोमि लाभालाभविनिश्चयम् ।

 शिष्यः-( पुस्तकमुपनीय ) कीरदु दाव केवलीपुत्थअपूआ । [६]


  1. अहमपि प्रणंममि ।
  2. भगवन् । अद्य मे रजन्यां मुयितं सर्वस्वमर्पयतु भवान् ।
  3. आ किं मन्त्र्यने ! । अप रजन्नां न कुनापिन गत उपाव्यायः ।
  4. शान्त पापम् । ज्ञानशक्त्या चोरं छात्वा आवयतु इति मया मन्त्रितम् ।
  5. भगवन ! करुणारसम्ागारान् यु*मा*ट्-*त्रं" कोऽन्य अस्मादृशस्य अर्थिजनस्य शरणम् । प्राप्तश्च सोऽśसश्चयो युष्नाकमे य स्वाधीनो भविrयति ।
  6. क्रियता तावत्केवलीपुग्तकपृजा ।