पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
त्रिपुरादाहो डिमः


लक्ष्यं किमप्यभवदन्यदिवाभिगम्यं
 मार्गायितं पुनरमुष्य पुरत्रयेण ॥ १६ ॥

 आर्य धर्म ! पश्य पश्य । कृतार्यय चक्षुषी । युगपदेव ज्वलतीयं पुरत्रयी शङ्करशरानलेन ।

 धर्म:--(सपरितोषमालोक्य) साधु साधु ।

प्राग्यागविघ्नप्रथितोरुवैर-
 स्त्रेतानलोऽयं कलितावकाशः ।
बलेन शम्भोस्त्रितयं पुराणां
 ज्वालाकरालः कवलीकरोति ॥ १७ ॥

(नेपथ्ये)

अस्पृश्यस्पर्शकारः प्रसभमपनयन्वर्णभेदव्यवस्थां
 लोकं निःसीमशोकं रुदितमयदृशं कल्पयन्कान्दिशीकम् ।
कुर्वन्सन्मार्गरोधं शिशुयुवतिगुरुध्वंसकर्मण्यशङ्कः
 कुस्वामीवैष वह्निः प्रलयमुपनपत्याशु हा ! धिक्पुराणि ॥ १८ ॥

 अपि च-

शय्यां श्रान्त इवाभ्युपैति नृपवद्भद्रासनं सेवते
 गर्भागारमुपैति कामुक इच द्रोहीव रुन्धे दिशः ।
स्वैरं वीर इयाश्वहस्तिनिवहान्मय्नाति वह्नयात्मकः
 कोऽयं कोऽयमहो पुरत्रयकृते धिग्देव ! सृष्टस्त्वया ॥ १९ ॥

 मुनयः-(श्रुत्वा सहर्पम् ) दिष्ट्या श्रुतं तावदघ श्रोतव्यम् ।

 नारदः-(नमोऽवलोक्य सगतम् ) आर्याः व्याकुलोऽस्मि । न पश्यामि देवान् ।

 मुनयः--(साशङ्कम् ) तात नारद ! निरूपय निरूपय ।

 नारदः--(हाबाधामभिनयन्) आर्याः! किं निरूपयामि ।

कवचितककुमोऽमी इमामला धूमकृटा:
 कनकशिखरिशृङ्गप्रांशुरर्चिःप्रपञ्चः ।
तरुणतरुणागुखापुखपिङ्गा स्फुलिङ्गाः
 किमपि नभसि नान्यत्तुर्यमालोकयामि ॥ २० ॥