पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
वत्सराजप्रणीतरूपफसङ्ग्रहे


 नारदः-(प्तौत्सुक्यम्)किमिदानीं प्रतीक्ष्पते । प्रत्यासन्ना एव हन्यन्ताममी ।

 महेशः-अयि नारद ! कोऽयमवसरः पराक्रमस्य ।

स्वेनैवेपुपथे भवन्ति यदमो दर्पज्यरोन्मोहिताः
 पार्णि कस्य धनुर्ग्रहीप्यति हहा ! हन्तुं तदेतानपि ।
तुच्छे कर्मणि भूरिडम्बरघरं धिग्धन्घिनं धिग्धनु-
 र्धिग्वाणं धिगमुं रणव्यतिकरं धिकसारथिं धिग्रथम् ॥ १५ ॥

 कृष्णः--( सोत्प्राप्तम्) अपि कलिमिय ! साधूक्त्तं परमेश्वरेण | प्रतीक्षतां, भवन्तु तायदर्मो भूयोऽपि तथैव दुर्द्धर्षाः । दुराघर्पे हि विद्विपि विक्रमः प्रकर्पमभ्युपपद्यते ।

 स्फुटा०--( सप्रश्रयम्) नाह सव्वताव! णिद्दलिदो दाव एस वैरीणा वंचणापवंचो । ता संपइ तहतहच्चेअ णिअट्टाणेसु संचरन्तु सुज्जतावचंदातवो । ण एआरिसी णीदी भोदि, जं एक्कठाणे चिट्टोअदि [१]

 सर्व०-(सोत्प्राप्तम् ) स्फुटाक्षर ! क्रोधनोऽसि । कस्ते वचनमुल्लङ्घपितुं पर्याप्तः ? । कारय यथोचितम् ।

 स्फुटा०-जं आणवेदि सामी-(इति निप्फम्य तथा तथा कारयति )

 कृष्णः- ( प्तप्तम्भ्रममवलोक्य ) अयि महेशा ! दृश्यतां दृश्यताम् । इदानीममी सुष्टु समधिकान्तराले संवृत्ता न जाने धातगोचरे भविष्यन्ति न वेति ।

 महेशः-( सहर्पोल्लप्तं सहसोत्थाय ) हता एवामो । क इदानीं सन्देहः । वाहयतु भगवान्विरिञ्चिर्वेगेन रथम्

( विरिञ्चिस्तथा करोति )

 नारदः--(व्याकुछताभभिनयन्सप्तम्भ्रमम् ) आः ! कथमात्मानमपि नानेन रथशरयेण जानामि | क्क मे दर्शनश्रवणशक्त्ती । अपि परमेशा ! तदहं कुतूहलायलोकननरलमुनिमण्डलमध्ये कैलासारूढो द्रक्ष्पामि । (इत्यन्तरिक्षगत्या तथा करोति )

 नारदः---(पुरोऽवलोक्य साश्चर्यम् )

वाणो हरिर्विजयतेऽन्धकसृदनस्य
 वाग्गोचरा भवति यस्य न वेगलक्ष्मीः ।


  1. नाय सर्त्र्वताप!निर्दलितस्तावदेप वैरिणां वञ्थ्वनाप्रपञ्चः । तत्सम्प्रति तया प्तयैव निजस्थानेषु सञ्चरतां सूर्यतापचन्द्रतापौ । नैतादृशी नीतिर्भवति यदेकस्याने स्यीयते ।