पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
वत्सराजप्रणीतरूपकसङ्ग्रहं


पुच्छेऽग्ने च विशालभीमशिरसः सायामकायक्रमाः
 पौरस्फोटितभाण्डनादजनितद्वैगुण्यशब्दोर्मयः ।
बद्धोत्कालपृथुस्फुलिङ्गपटलैराग्नेयदिग्विभ्रम
 विभ्राणाः सकलासु दिक्षु निपतन्त्युल्काः पुरे खेचरे ॥ ११ ॥

 नारदः- तदनुसारेणोर्द्धमवलोक्य सहर्षम् ) सत्यं सत्यम् ।

व्योन्नि प्रकटयन्त्येता उल्काः दीप्ताशिखाः पुरीम् ।
दीपिका इव कालस्य दुष्टदैत्यान्विचिन्वतः ॥ १२॥

( नेपथ्ये)

 अयि चंचला दाणवा ! चिट्ठध चिट्ठध । को एस तुम्हाणं अलिओप्पाभअसंखोहो । णूणं एदाओ पलाअन्तस्स पावअस्स करालाओ जालाओ णिवडिदाओ। मए खु णारअवेसेण महेसं वंचिअवंचिदा महेन्दपमुहा लोअवाला।परिदेविदं खु ताणं पुरदो मए । 'हा ताद कमलासण! हा महेस ! हा केशव! कह तुम्हेहिं तिउरासुरणिव्वासिदेहिं पाआलमूले वसिदव्वं । तुम्हेवि महेन्दपमुहा सव्वे सुरा तहिं गच्छध गच्छध कुणह परोप्परमुहावलोएण तहिं कालक्खेवं । तदो महेंदपमुहेहिं अमरहिं अविआरिअ झत्ति य वक्कंतं । ला सहं झत्ति संभावेदु देओ सुज्जताओ अ जहिच्छं सुरिंदरापहाणि[१]

(पुनर्नेपथ्ये)

 साधु विपरीत साधु । शिरोमणिस्त्वमसिमद्भ्टत्यानाम् । सफलीकृतं भवता विपरीतेति नाम, यदसुराः स्वर्गसदः कृताः, पातालमूलं प्रापिता अमराः ।

 नारदः-(सावेगं सभयं च ) अपि श्रुतं भवद्भिः ।

 नन्दी-किं श्रोतव्यम् ? ।


  1. अयि चञ्चला दानवाः ! तिष्ठत तिष्ठत । क एष युस्माकं अलीकोत्पातभयसङ्कोभः । नूनमेताः पलायमानस्य पावकस्य कराला जाला निपतिताः । मया खलु नारदवेषेण महेशं वश्वयित्वा वञ्चिता महेन्द्रप्रमुखा लोकपालाः । परिदेवितं खलु तेषां पुरतो मया हा तात कमलासन ! हा महेश ! हा केशव ! कथं युस्माभिः त्रिपुरासुरनिवासितैः पातालमूले वसितव्यम् । यूयमपि महेन्द्रप्रमुखाः सर्वे सुराः तत्र गच्छत गच्छत, कुरुत परस्परमुखावलोकेन तत्र कालक्षेपम् । ततो महेन्द्रप्रमुखैरमररविचार्य झटित्येव अपक्रान्तम् । तत्सम्प्रति झटिति सम्भावयनु देवो यथेच्छं सुरेन्द्रराजधानीम् ।