पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
त्रिपुरदाहो डिमः


 महेशः--( सस्मितम् ) अहमप्यपरनारदेन गत्वा योधितोऽस्मि ’किन्तेन मे स्वाणुनेति त्वां हरिरुपहसति’ । ततोऽहं केशवान्तिकमागतेनः:नन्दिना गत्या सम्वोधितऽस्मि । शामितक्रोधोऽत्र समायातोऽस्मि ।

 कृष्णः-(सपरिहासम्) अहो ! कलिप्रियस्य कलहावलोकनकारणेन कायव्यूहकारिता ।

 नारदः-( सक्रोधमिव आकाशे लक्ष्यं वद्ध्व ) साधु दानवाः ! साधु ! पुनः पुनर्विडम्घयत तातं कमलासनम् | दास्यति चरान्युप्मभ्यम् ।

 विरिश्चिः-अयि नारद ! किमविज्ञाय कुप्यसि ? ।

तपः सप्तेवन्ते दुरघिगकामार्यमसुरा
 स्नतः प्रोतात्मानो ददति च वरं युक्तममराः ।
त्रिलोकीसंहारप्रणिहितधियः पापनिधयो
 न वध्यन्ते दैत्या गदितुमिति कस्यास्नि रसना ॥ ९ ॥

 सोपधिश्च वरो मक्तस्तैर्गृहीतो यथा किल त्रयोऽपि, वयमेकशरविद्धा एच यध्याः ।

 नारदः-अत एव ते योजनशतान्तरेण सश्चरन्ते । तदित्थमवध्या एव ते संवृत्ताः । क्कैवंविधं घनुः, क्कैवंविघः शरः, कैवंविघो घन्वी, येनैकशरेण त्रयोऽपि विध्यन्ते ।

 कृष्णः-( सक्रोधम् ) अपि नारद ! मैवम्---

स कोदण्डश्चण्डः कठिनकठिनः किन्न भविता
 पृपत्कः सायामः किमु न भविता योजनशतम् ।
अविज्ञेयो घन्वी किमु न भविना कोऽपि विपमो
 विघौ क्रुद्धे मृत्युः किमु न निकटः सोऽपि भविता ॥ १० ॥

 नारदः-( सहर्षम् ) अपि कृप्ण ! त्ययि क्रुद्धो कुद्धो विधिः, क्रुद्धः परमेक्ष्वरः ।

 नन्दी-( सहर्पे प्तार्श्वर्यमूर्वपवछेोफयन्) अहो ! कृप्णवचनमनुवर्तन्ते दुष्टदानवविनाशपिशुनानि दुर्निमित्तानि । पश्यत पश्यत-