पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
त्रिपुरदाहो डिमः


 नारदः पश्यत पश्यत । विपरीतवचनसमाकर्णनानन्तरमेव

हर्पोत्कर्षविशृङ्खलासुरचमूसान्द्रध्वजश्रेणिभिः
 कुर्वन्नम्बरडम्वरं हयमहाहेपोर्मिवाचालितम् ।
तन्वन्दिग्वलयं नवाम्बुदमयं दानान्यदन्ताक्लै-
 रेप प्रस्थित एव दानवपतिः पौरन्दरं पत्तनम् ॥ १३ ॥

(सखेदं निश्वस्य)

कोदण्डेऽजगवे कदा गुणलता टङ्कारमापत्स्यते ?
 मोच्या हन्त कदा गदाऽध भविता बाह्यं तदरत्रं कदा ? ।
याता एव यतस्ततो दिविपदस्ते ते महेन्द्रादयो
 घिग्धिग्वश्विरजीवितं यदसुरैः स्वर्गो हहा ! गृह्यते ॥ १४ ॥

 कृष्णः-(प्तोत्साहम्) अपि नारद! किमेवमाफुलोऽसि?। स्वर्गनामसमाकर्णनेपि बघिरा एव दानवाः । (इति चिन्तां नास्यति )

 नन्दी-(उर्ध्वमवलोकयन् साश्चर्ये स्वगतम् ) आः! कोऽयमाकस्मिको महान्घकारः सहसा विजृम्भते । नूनमियं कृष्णप्रयुक्तेन्द्रजालर्माया भविष्यति, यद्दैत्यवरुथिनीमेवोपसर्पति । (प्रकाशम् ) आश्चर्यमाश्चर्यम् ।

अन्योन्यं घटनादुपात्तकलहाः क्षुभ्यन्त्यहो कुम्भिनो
 जायन्ते स्वयमेव दन्तिदशनाघातस्य लक्ष्य हयाः ।
दूरे शक्रपुरी निजालयपरावर्त्तोऽप्यभूहुर्लभः
 सद्यः पश्यत पश्यतासुरवले ध्वान्तैः कृतान्तायितम् ॥ १५ ॥

 नारदः-(सहर्पम् ) अयि दानवारे । नमस्ते नमस्ते । नामापि न भविप्यति त्वयि कुद्धे दानवानाम् ।

नैतस्य द्विरदा भदाकुलकदा नोदग्रवेगा हया
 योदारो न निशातशस्त्रनिधयो नोग्रममाया रथाः ।
नायं वल्गति नईति प्रहरति प्रस्फोटयत्युत्कटी
 मोहेनैव निहन्ति दानवकुलं वीरोऽन्धकारोद्रुतः ॥१६॥

(नेपथ्ये)

 अयि दानववीराः! किमेवमाकुलीभवन्ति भवन्तः । नूनमयं पाता-