पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
वत्सराजप्रणीतस्रूपकसङ्गहे


ज्ञः । कृष्णो निश्चित्दुर्दैत्यदुर्विलसितो देवदेवसम्बोधनाय प्रागेय मां कृनस्मितः प्रजिघाय ।

 महेशः-( सौत्सुक्यम्) अयि नन्दिन् ! कदा मे कृप्णमेघसंदर्शनेन मनोमयूरः परिमुक्त्तपरितापो भविष्यति ।

 नन्दी-( सस्मितम् ) विमना देवो न जानोते । ननु वयमागता एव विष्णुलोकम् । किन्न पश्पति देवः पुरतोऽभ्युत्थितौ विरिञ्चिनारायणौ सनारदौ ? ।

 महेशः-( सहर्प सोत्कष्ठमुपस्यृत्य सपरिहासम्) कृप्ण ! कृप्ण ! आवयोः समरद्रष्टा स्रष्टाप्ययमुपेत एव । तदेहि युध्यते ( इति समालिङ्गति )

 कृष्णः-( सप्रश्रयम्) अयि देवदेव । किन्नु प्रश्रयेण मम भक्तिमन्तरयसि । ( इति ग्रणमति )

 महेशः-भगवन्पितामह ! एप त्वां महेशोऽभिवादयते ।

( पितामहः सलज्जं तूष्यणीमास्त्ते )

 नारदः-अलङ्कियन्तामासनानीमानि भवद्भिः ।

 महेशः-उपविशतु पुरो भगवान् विरिञ्चिः ।

 विरिञ्चिः--(सनि:श्वाप्तं सप्रश्रयम्) अयि देवदेव ! दानवाधमविप्रलव्घो नाहमेर्वविघमादरमर्हामि ।

 महेशः-अयि पितामह! समान एचायमावयोरपकर्पस्तदुपविश्यताम् ।

( सर्वे यथायथमुपविशन्ति )

 महेशः-( सस्मितम् ) अयि पितामह ! कथं पुनर्भवान्दानवाघमेन विप्रलव्ध:।

 विरिञ्चिः-( सवैलक्ष्यम् ) अपि जगन्नाथ ! किं कथयामि । केनापिबाप्पाम्बुपूरकारिणा नारदरूपधारिणा सान्क्रन्दमुक्त्तोऽस्मि अधिक्षिप्तोऽस्मि कैशावेनहं त्वत्पितुर्चरदानेन दृप्सास्त्रिपुरासुराः परिभवन्ति भुवनत्रयम् । तत्तेनैव सह तानुन्मूलयामि । ततोऽहं क्रुद्धो विष्णुलोकं समागतवान । (निःश्वस्य ) किमप्पनुचितमारव्धवान् । रक्षितोऽस्मि सर्वज्ञेन क्षमिणां वरेण दामोदरेण ।