विरिञ्चिः--साधु साधु । (सर्वतो विभाव्य ) अपे ! समागत एवास्मि विप्णुलोकम् । तत्कथं करोमि!( स्वगतम् ) युंद्धदुर्भदो मुरारिर्वरं शापोदकेनैव तं शमयामि । ( प्रकाशम् ) अयि नारद ! न सहे समरविस्तरेण कालक्षेपं, तदहं शापेमैव केशवं शवीकरोमि ।
कपटनारदः-(तूप्णीं तिष्ठन्स्वगतं सहर्षम्) दिट्टिआ कअकय्यो भविस्सं[१] ।
विरिञ्चिः-( सनोघमुच्चै. )
सोऽन्यः सिन्धुपतिर्युगान्तविलसद्धेलासमुल्लङ्घने |
कृष्णः-( श्रुत्वा सभयम्) आः ! किमेतत् किमेतत् । (इत्युत्तिष्ठति )
नारदः---( सप्तम्भ्रमं वेगादुपेत्य ) तात ! धिक्त्वां धिक्त्वाम् । किमनुचिते प्रवर्त्तसे ? । एप त्वां हरिरभ्युद्गच्छति ।
( कपटनारदस्तिरोधत्ते )
विरिञ्चि-(नारदं दृष्ट्वा) कथमयं नारदः ? । (पार्श्वमवलोक्य कपटनारदुमदृष्ट्वा साश्चर्यभधोमुखस्तिष्ठति ) ।
नारायणः-( सस्मितं सप्रश्रयम्) आर्यपितामह ! मुञ्च मुञ्च वैलक्ष्यम् । ठयक्षोऽपि देवस्त्वमिव केनापि दानवेन नारदरूपधारिणा हरिस्त्वामुपहसतीति साटोपकोपः कृतो मदधिक्षेपाय प्रजिघायात्र शिलादसूनुम् ।
( ततः प्रविशाति नन्दिनानुगन्यमानेो महेश. )
महेशः ---- ( प्तानुतापम् )
अविमृश्पकारितेयं क्रूरा कालोरगी हहा । कापि |
अयि नन्दिन् । कथय कथय त्वदुदीरितदुरुदाहरणकन्दलितकोपः कथं वभूव, किमाह कृष्णः ।
नन्दी ---- ( प्तप्रक्ष्रयम् ) अयि चतुर्दशजगन्नायक । किमेवम्नुलप्यते सर्व-
- ↑ दिप्टया कृतकायों भविष्यामि ।