पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि । नूपुरयुतं पदपद्मवृंदम् । पीतांबरांचलविलोलचलत्पताकं स्वर्णविवक्रवलयं च हरेः स्मरामि ॥ २ ॥ जंघे सुपर्ण- गलनीलमणिप्रवृद्धे शोभास्पदारुणमणिद्युतिचंचुमध्ये आरक्तपादतललंबनशोभमाने लोकेक्षणोत्सवकरे च हरेः स्मरामि ॥ ३ ॥ ते जानुनी मखपतेर्भुजमूलसंगरंगोत्स- वावृततडिद्वसने विचित्रे | चंचत्पतन्त्रिमुख निर्गतसामग्री- तविस्तारितात्मयशसी च हरेः स्मरामि ॥ ४ ॥ विष्णोः कटिं विधिकृतांतमनोजभूमिं जीवांडकोशगणसंगदुकूल- मध्याम् | नानागुणप्रकृतिपीत विचित्रवस्त्रां ध्याये निबद्ध- वसनां खगपृष्ठसंस्थाम् ॥ ५ ॥ शांतोदरं भगवतस्त्रिव- लिप्रकाशमावर्तनाभिविकसद्विधिजन्मपद्मम् । नाडीनदी- गणरसोत्थसितांत्रसिंधुं ध्यायेंऽडकोशनिलयं तनुलोमरे- खम् ॥ ६ ॥ वक्षः पयोधितनयाकुचकुंकुमेन हारेण कौस्तुभमणिप्रभया विभातम् | श्रीवत्सलक्ष्म हरिचंदन- जप्रसूनमालोचितं भगवतः सुभगं स्मरामि ॥ ७ ॥ बाहू सुवेषसदनौ वलयांगदादिशोभास्पदौ दुरितदैत्य विना- शदक्षौ । तौ दक्षिणौ भगवतश्च गदासुनाभतेजोर्जितौ सुललितौ मनसा स्मरामि ॥ ८ ॥ वामौ भुजौ मुररि- पोर्धेतपद्मशंखौ श्यामौ करींद्रकरवन्मणिभूषणाढ्यौ । रक्तांगुलिप्रचयचुंबितजानुमध्यौ पद्मालयाप्रियकरौ रुचि- रौ स्मरामि ॥ ९ ॥ कंठं मृणालममलं मुखपंकजस्य ४७