पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे १५. आचार्यकृतषपदी । श्रीगणेशाय नमः ॥ अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् । भूतदयां विस्तारय तारय संसारसागरतः ॥ १ ॥ दिव्यधुनीमकरंदे परिमलपरि भोगसच्चिदानंदे । श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे ॥ २ ॥ सत्यपि भेदापगमे नाथ तवाहं न मामकीन- स्त्वम् । सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ॥३॥ उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे । दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ ४ ॥ मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधाम् । परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम् ॥ ५ ॥ दामोदर गुणमंदिर सुंदरवदनारविंद गोविंद | भवजल- धिमथनमंदर परमं दरमपनय त्वं मे ॥ ६ ॥ नारायण करुणामय शरणं करवाणि तावकौ चरणौ । इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥ ७ ॥ इति श्रीमच्छंक- राचार्यविरचितं षट्पदीस्तोत्रं संपूर्णम् || १६. विष्णुस्तवराजः । श्रीगणेशाय नमः ॥ पद्मोवाच । योगेन सिद्धविबुधैः परिभाव्यमानं लक्ष्म्यालयं तुलसिकाचितभक्तभृंगम् । प्रोत्तुंगरक्तनखरांगुलिपत्रचित्रं गंगारसं हरिपदांबुजमा- श्रयेऽहम् ॥ १ ॥ गुंफन्मणिप्रचयघद्वितराजहंससिंजत्सु- (15