पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे गृहाण द्विरदानन ॥ २५ ॥ तत आचमनं देव सुवासि तजलेन च । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६ ॥ वस्त्रयुग्मं गृहाण त्वमनर्थ्य रक्तवर्णकम् । लोक लज्जाहरं चैव विघ्ननाथ नमोस्तु ते ॥ २७ ॥ उत्तरीयं सु- चित्रं वै नभस्तारांकितं यथा | गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८ ॥ उपवीतं गणाध्यक्ष गृहाण च ततः परम् | त्रैगुण्यमयरूपं तु प्रणवग्रंथिबंधनम् ॥ २९॥ ततः सिंदूरकं देव गृहाण गणनायक | अंगलेपनभा- वार्थ सदानंदविवर्धनं ॥ ३०॥ नानाभूषणकानि त्वमंगेषु विविधेष च । भासुरस्वर्णरत्रैश्च निर्मितानि गृहाण भो ॥ ३१ ॥ अष्टगंध मायुक्तं गंधं रक्तं गजान्दन | द्वाद- शांगेषु ते ढुंढे लेपयामेि सुचित्रवत् ॥ ३२ ॥ रक्तचंदन- संयुक्तानथवा कुंकुमैर्युतान् । अक्षतान् विघ्नराज त्वं गृ हाण भालमंडले ॥ ३३ ॥ चंपकादिसुवृक्षेभ्यः संभूतानि गजानन | पुष्पाणि शमिमंदारदूवादीनि गृहाण च॥३४॥ दशांगं गुग्गुलुं धूपं सर्वसौरभकारकम् । गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५ ॥ नानाजातिभवं दीपं गृहाण गणनायक | अज्ञानमलजं दोषं हरंतं ज्योतिरू- पकम् ॥ ३६ ॥ चतुर्विधान्नसंपन्नं मधुरं लड्डुकादिकम् । नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७ ॥ सुवा-