पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | तस्य प्रणश्यति ॥ ३ ॥ यस्त्वामुदकमध्ये तु धृत्वा पूज- यते नरः । विस्फोटकभयं घोरं गृहे तस्य न जायते ॥४॥ शीतले ज्वरदग्धस्य पूतिगंधयुतस्य च । प्रनष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् ॥ ५ ॥ शीतले तनुजान्रो- गानृणां हरसि दुस्त्यजान् । विस्फोटकविदीर्णानां त्व- मेकामृतवर्षिणी ॥ ६ ॥ गलगंडग्रहा रोगा ये चान्ये दारुणा नृणाम् | त्वदनुध्यानमात्रेण शीतले यांति संक्षयम् ॥७॥ न मंत्रो नौषधं तस्य पापरोगस्य विद्यते । त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥ मृणालतंतुसदृश नाभिहन्मध्यसंस्थिताम् । यस्त्वां संचिंतयेदेवि तस्य मृत्युर्न जायते ॥ ९ ॥ अष्टकं शीत- लादेव्या यो नरः प्रपत्सदा । विस्फोटकभयं घोरं गृहे तस्य न जायते ॥१०॥ श्रोतव्यं पठितव्यं च श्रद्धाभक्ति समन्वितैः । उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११॥ शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ १२ ॥ रासभो गर्दभश्चैव खरो वैशाखनंदनः । शीतलावाहनश्चैव दूर्वा- कंदनिकृंतनः ॥ १३ ॥ एतानि खरनामानि शीतलाप्रे तु यः पठेत् । तस्य गेहे शिशूनां च शीतलारुङ्ग न जायते ॥ १४ ॥ शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् । सातव्यं च सदा तस्मै श्रद्धाभक्तियुताय व ॥ १५ ॥ इति श्रीस्कंदपुराणे शीतलाष्टकस्तोत्रं संपूर्णम् ||