पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि । रुद्रः पशुपतिरथोग्रः सह महांस्तथा भीमेशानाविति यदभिधानाष्टकमिदम् । असुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मै धान्ने प्रविहितनमस्योsस्मि भवते ॥ २८ ॥ नमो नेदिष्टाय प्रियदव दविष्टाय च नमो नमः क्षोदिष्टाय स्मरहर महिष्टाय च नमः | नमो वर्षिष्टाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति - सर्वाय च नमः ॥ २९ ॥ बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः । जनसुखकृते सचोदिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्सैगुण्ये शिवाय नमो नमः ॥ ३० ॥ कृशपरिणति चेतः क्केशवश्यं क्व चेदं क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धि: । इति चकितममंदीकृत्य मां भक्तिराधाद्वरद चरणयोस्त वाक्यपुष्पोपहारम् ॥ ३१ ॥ असितगिरिसमं स्यात्कज्जलं सिंधुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३२ ॥ असुरसुरमुनींद्रैरर्चि- तस्येंदुमौ लेग्रंथितगुणमहिम्नो निर्गुणस्येश्वरस्य | सकलग- णवरिष्टः पुष्पदंताभिधानो रुचिरमलघुवृत्तैः स्तोत्रमेतच्च कार ॥ ३३ ॥ अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत्पठति पर मभक्त्या शुद्धचित्तः पुमान्यः । स भवति शिवलोके रुद्- तुल्यस्तथाऽत्र प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४ ॥ d