पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे धानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि म खाः ॥ २१ ॥ प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा । धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसंतं तेऽद्यापि त्यजति न मृग- व्याधरभसः ॥ २२ ॥ स्वलावण्याशंसा धृतधनुषमहाय तृणवत्पुरः सुष्टुं दृष्ट्वा पुरमथन पुष्पायुधमपि । यदि स्त्रैण देवी यमनिरतदेहार्धघटनादवैति त्वामद्धा बत वरद सुग्धा युवतयः ॥ २३ ॥ श्मशानेष्वाक्रीडा स्मरहर पिशा- चाः सहचराश्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः । अमंगल्यं शीलं तव भवतु नामैवमखिलं तथाऽपि स्म र्तॄणां वरद परमं मंगलमसि ॥ २४ ॥ मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलो. त्संगितदृशः । यदालोक्याह्लाहं हृद इव निमज्ज्यामृत- मये दधत्यंतस्तत्वं किमपि यमिनस्तत्किल भवान् ॥२५॥ त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहस्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं न विद्मस्त्वत्तत्त्वं वयमिह तु यत्वं न भवसि ॥ २६ ॥ त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान काराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति । तुरी- यं ते धाम ध्वनिभिरवरुंधानमणुभिः समस्तव्यस्तं त्वां शरणद गुणात्योमिति पदम् ॥ २७ ॥ भवः शर्वो