सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX ३०५ पावमानी: शंवतीरैन्द्रीरप्रतिरथं च श्रावयेत् । भुक्ताशयेषु पिण्डदानम् । आशयान् गोमयेनोपलिप्य प्रागग्रान् कुशानास्तीर्य, अलंकृत्य पृषदाज्यमिश्रेण भुक्तशेषेणैकैकस्य द्वौ द्वौ पिण्डौ दद्यात् । ' नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः स्वाहा ' इत्युपांशूक्त्वा अक्षय्यमित्युच्चैः पात्रेणा- लंकृतमुदकुम्भमादाय दक्षिणं जान्वाच्य ' उपास्मै गायता नरः इति पञ्च मधुमती: श्रावयेत् । अक्षन्नमीमदन्त हि इति च षष्ठीम् । ' मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासं शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनु मदन्तु ' इति । 'नान्दीमुखा: पितरः प्रीयन्ताम्' इत्युच्चैर्विसृजेत् । उक्तं ' प्रदक्षिण- मुपचारो यवैस्तिलार्थः ' इति । सर्वं द्विद्विरिति । यथाशक्ति दक्षिणा || ३ || S अथ पात्राणामासादनम् । उदगग्नेर्दर्भेषु । ऊर्ध्वं पर्युक्षणात् । पवित्र च्छेदनानि पवित्रे प्रोक्षणी प्रणीताज्यस्थाली चरस्थाली स्रुक्स्रुवं चेष्माबहिर्वेक्षणकाश्च । अन्यद्वोपयोग्यम् । द्वे द्वे पाले न्यग्बिले कृत्वा ततः प्रोक्षेत् । सपविले अनामिके कृत्वा प्रोक्षणी- मुद्धृत्य अद्भिः पूरयित्वा उत्पूय विस्ताभिरुपरिबिलानि कृत्वा ततः प्रोक्ष्य, इध्मं च विस्रस्य प्रणीतापानेऽक्षताः सुमनसः पवित्रकं न्यस्य ब्रह्माणमतिसर्जयेत् । नातिसर्जयेदित्येके । अपां पूरयित्वा, उत्पूय ब्रह्मणानुज्ञातोऽग्नेरुदक् प्रतिष्ठापयेत् । आज्यस्थाल्यां सर्पिरानीय, अग्नेरुदगङ्गारापोहनादि समानम् । मन्त्रवमव- ज्वाल्य, अनन्तरा दर्भतरुणको न्यस्य पुनर्ज्वलता त्रिः परिहरेत् । 20