सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ आश्वलायनगृह्यसूत्रभाष्यम् आज्यस्योत्पवनम् । बर्हिष उपरि स्थाप्य दव स्रुवं च प्रक्षाल्य प्रताप्य दर्भैरवमृज्य पुनः प्रक्षाल्य निष्टप्य निदध्यादिति । सर्व- त्रैवमाज्यलेपान् परिस्तरणैस्त्रिस्त्रिः संमृज्याग्रैर्मध्येन मूलेन च अद्भिः संस्पृश्याग्नावादधाति । परिधींश्चेत् सर्वत्रैव समानेषु यथोक्तं कर्म कुर्यादिति ॥ ४ ॥ नाम त्वेकादशे दिवसे शतराने संवत्सरे वा । यथोपपत्त्येके । जन्मन्येकादशे वा नक्षत्रनाम । ८ कुमारस्य तु जातस्य अरणीं षोडशाङगुलाम् । आहृत्य चोत्तरामरणी ताभ्यामग्नि तु मन्थयेत् ॥ संगृह्यश्चात ऊर्ध्वं स्याद् विधिनानेन संस्कृतः । तस्मिन् कुमारकर्माणि विवाहान्तानि कारयेत् । जुहुयाज्जातकर्मादि पित्य औपासनेऽपि वा ।। ५ ।। ब्राह्मार्षदैवोद्वाहेषु प्राजापत्येषु याज्ञिकैः । पूर्वं होमविधिः प्रोक्तः पश्चात् परिणयः स्मृतः ॥ गान्धर्वासुरपैशाचा विवाहो यश्च राक्षसः । पूर्वं परिणयस्तेषां पश्चाद्धोमो विधीयते || कन्यां वरयमाणानामेष धर्मो विधीयते । प्रत्यङमुखा वरयन्ति प्रतिगृह्णन्ति प्राङ्मुखाः ॥ उभयस्यापि पक्षस्य पितापुत्नीमनुक्रमेत् । कन्यां ददति ये तव पितापुत्रीं तथैव च ।। अनुक्षरा ऋजवः सन्तु पन्थाः' इत्यागच्छमानामनु- मन्त्रयेत । दाता वराभिमुखः पूर्वं ब्राह्मणान् वाचयित्वा ततो वरं वाचयेत् ——— शिवा आपः सन्तु । सौमनस्यमस्तु | अक्षतं चारिष्टं