३०४ आश्वलायनगृह्यसूत्रभाष्यम् किमर्थं वैश्वदेवानां पूर्वमन्त्रं प्रदीयते । दत्त्वा तु पूर्वमेतेषां कस्मात् पश्चाद्विसर्जनम् ।। असुराः पितृरूपेण चात्तुं हिंसन्ति मानवान् । तेषां वै रक्षणार्थं तु तस्मात् पश्चाद्विसर्जनम् ।। १ ।। अङ्गुष्ठमात्रो भगवान् विष्णुः पर्यटते महीम् । रक्षसां तु वधार्थाय श्राद्धेऽङ्गुष्ठग्रहः स्मृतः ॥ ब्राह्मणानां नियुक्तानामङ्गुष्ठेष्वेव तिष्ठति । तस्माच्छ्राद्धेषु सर्वेषु अङ्गुष्ठग्रहणं स्मृतम् ।। अभिरूपेण मन्त्रेण ' इदं विष्णुर्विचक्रमे ' इति || निरङ्गुष्ठं च यच्छ्राद्धं बहिर्जानु च यद् भवेत् । बहिर्जानु च यद् भुक्तं सर्वं विद्यात् तदासुरम् || इति ॥ २ ॥ अथाभ्युदयिके । अमूला दर्भा: युग्मा ब्राह्मणाः । प्राङ्मुखो यज्ञोपवीती स्यात् । प्राङ्मुखेभ्य उदङ्मुखो दद्यात् । उदङमुखेभ्यो वा प्राङ्मुखः । द्वौ दर्भों पवित्रे । सोपयामानि पात्राणि त्रीण्येव । ' शं नो देवीरभिष्टये ' इत्यनुमन्त्रितासु यवानावपति । यवोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः पुष्ट्या नान्दीमुखान् पितॄनिमान् लोकान् प्रीणया हि नः स्वाहा' इति । ' नान्दीमुखाः पितरः प्रीयन्ताम् ' इत्यर्घ्यनिवेदनम् । ‘ नान्दीमुखाः पितर इदं वोऽर्घ्यंम् ' इत्यर्घ्य - ग्रहणं विसर्जनं च । एवमुत्तरयोरपि पितामहप्रपितामहयोः । नित्यं चाग्नौकरणम् । स्वाहाकारेण होमः स्यात् । ' अतो देवा अवन्तु नः ' इत्यङगुष्ठग्रहणं च । इदं विष्णुर्विचक्रमे ' इत्यन्यत ।
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३४१
दिखावट