प्रथमोऽध्यायः ६५ नीत्यनेन तूपसर्गेण अधएव मार्जनं भवति । यत् क्षुरेणेत्यनेन मन्त्रेण ।। १६ ।। नापितं शिष्यात् ' शीतोष्णाभिरद्भिरबर्थं कुर्वाणो- ऽक्षुण्वन् कुशली' कुरु' इति ॥ १७ ॥ 2 नापित इति शिल्प्युपदिश्यते । शिष्यादिति उपदिशेदित्यर्थः । शीतोष्णाभिरद्भिरित्यनेन प्रेषेण प्रेष्येत् । क्रियां चास्य निर्दिशेत् इदं कुर्विति ॥ १७ ॥ यथाकुलधर्मं केशवेशान् कारयेत् ॥ १८ ॥ यो यस्य धर्मः कुले तादृशान् केशवेशान् कारयति । कः कुलधर्मः । 'एक शिखस्त्रिशिख: पञ्चशिखः' (बौ० गृ० २ ४ १७ ) इत्येवमादयः । पृथुकान चीरकानित्येवमादीनित्यर्थः ।। १८ ।। आवृतैव कुमार्ये ॥ १६ ॥ ८ कुमार्या आवृता चौलकर्म कर्तव्यम् । आवृतेति किमुच्यते । समन्त्रकं कर्म । कथं ज्ञायते । येनान्यत्रावृतेत्युक्त्वा तूष्णीमित्याह । क्व पुनस्तत् । 'अपरया द्वारा नित्ययावृता' इत्युक्त्वा तूष्णीं प्रतिसर्पन्ति ( आ० श्र० ५.११.३ ) इत्याह । तेन ज्ञायते समन्त्रकस्य कर्मण उपदेश इति । यद्येवं स्यान्नैवोपदेशं कुर्यात् । कस्मात् । अविशेषेण विधानादुभयोः प्राप्नुयात् । तदेतन्नोपपद्यते । किं कारणम् । कुमाराधिकारात् । 'कुमारं 1 केशान् ---added in B. 3 केशवेषान् — B. - 2 मन्त्रेण -- added in A, C, D. 4 एवमादि धृषकान् A, C, D, प्रेषकान् -- B. तत्र is added between आदि and धूषकान् in D. सर्वस्य — B. 6 'तस्मात् -A, C.
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१३४
दिखावट