सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ आश्वलायनगृह्यसूत्रभाष्यम् स्वमिति मा हिंसीदेवप्रेरित आज्येन तेजसा ' (आ० श्र० ३ १४ १३ ) इति । अथवा क्रमार्थं द्वितीयतृतीयग्रहणम् ।। १३ ।। सर्वैश्चतुर्थम् ॥ १४ ॥ चतुर्थं छेदनं छिनत्ति । चतुर्णां पूरणं चतुर्थम् । तत् सर्वैर्मन्त्रैः अधिकृतैस्त्रिभिरपि' छिनत्तीत्यर्थः ॥ १४ ॥ एवमुत्तरतस्त्रिः ॥ १५ ॥ एवमेवोत्तरतस्त्रिः प्रच्छिनत्ति । एवमिति प्रकारवाची" । उत्तरत इति देशो निर्दिश्यते । त्रिरिति संख्यावचचम् । तत्र संशयः । किमिदं यथा चतुर्थं छेदनं तथा कर्तव्यमुत्तरतस्त्रिः । उत यथा पूर्वाणि त्रीणि । तत्नानन्तरविधानाद् यच्चतुर्थं तदेव प्राप्नोति । नेत्युच्यते । एवं तर्हि योगविभागः क्रियते । कथम् । एवमुत्तरतः । एवमुक्ते सर्वो विधि: प्राप्तः यथा दक्षिणे केशपक्षे । तेनैवं कृते चतुर्थमपि छेदनं प्राप्नोति । तेन विरिति परिसंख्यानार्थं क्रियते । तस्माच्चतुर्थं न भविष्यति । न च संशयो योग- विभागे कृते ।। १५ । क्षुरतेजो निमृजेत् :- 'यत् क्षुरेण मर्चयता सुपेशसा वप्ता वयसि केशान् । शुन्धि शिरो मास्यायुः प्रमोषी : ' ॥ इति ।। १६ ।। क्षुरस्य तेजः क्षुरतेजः । क्षुरधारेत्यर्थः । निमृजेत् शोधयेदित्यर्थः । ननु निमार्जनं कथं कर्तव्यम् । केचिदधोमार्जनमिच्छन्ति । केचिदूर्ध्वम् । 1. अवच्छिनत्तीत्यर्थ:--A, C, D. 2 प्रकारवाचि - C. ३ यच्छेदनं -A. 4 तिरिति — B. 5 Omitted in B. 6 निसृजेत — B.