प्रथमोऽध्यायः ६ ३ m प्रच्छिद्य प्रच्छिद्य प्रागग्राञ्छमीपणैः सह मात्रे प्रयच्छति । तानानडुहे गोमये निदधाति ॥ ११ ॥ प्रच्छिद्य प्रच्छिद्येति वीप्सा क्रियते । कथं योऽत्र धर्मं उपदिश्यते स सर्वेषु छेदनेषु स्यादिति । प्रागग्रानिति तेषां कुशपिलानां स्थाप्यमाना- नामपि प्रागग्रता विधीयते । शमीपर्णैः सहेति । एकीकृत्येत्यर्थः । मात्रे प्रयच्छति । ददातीत्यर्थः । को ददाति । यः करोति । गृहीत्वासौ माता पुनरानडुहे गोमये निदधाति । स्थापयति । अत्र नियमो नास्ति प्रागग्र- तायाः । तेन यथाभिप्रेतं स्थापयति ॥। ११ ॥ ' येन धाता बृहस्पतेररिन्द्रस्य चायुषेऽवपत् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तये ' ॥ इति द्वितीयम् ॥ १२ ॥ येन धातेत्यनेन मन्त्रेण द्वितीयं छेदनं प्रच्छिनत्ति । दक्षिणे केशपक्ष इत्यनुवर्तते ।। १२ ।। 'येन भूयश्च राव्यां' ज्योक् च पश्याति' सूर्यम् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तये ' ॥ इति तृतीयम् ॥ १३ ॥ येन भूयश्च रात्यामिति तृतीयं छेदनं छिनत्ति । द्वितीयं तृतीयमिति मन्त्रान्तप्रदर्शनार्थम् । ननु चेतिकरणेन मन्त्रान्त उपदिश्यते । नेत्युच्यते । इतिकारी मन्त्रमध्येऽपि विद्यते । यथा - ' आसीद सदनं स्वमासीद सदनं 1 चरात्यं -- A, C. 2 पश्यति -- A, C. here up to तृतीयग्रहणम् missing in A, C, D. Portion from
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१३२
दिखावट