सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ आश्वलायनगृह्यसूत्रभाष्यम् दक्षिणो यः केशपक्षः तस्मिन् केशपक्षे । त्रीणि त्रीणि कुशपिञ्जला- नीति वीप्सा बह्वर्था | अभ्यात्माग्राणीति । येषां कुशपिलानामाभि- मुख्येनाग्राणि श्रतानीमान्यभ्यात्माग्राणि । कस्य पुनराभिमुख्येन । कारयि- ष्यमाणस्य । अभ्यात्माग्राणि निदधाति । स्थापयतीत्यर्थः । ओषधे वाय- स्वैनमिति मन्त्रेण ॥ ८ ॥ ' 'स्वधिते मैनं हिंसी:' (वाज० सं०४. १ ) इति निष्पीडय लोहेन क्षुरेण ॥ ६ ॥ स्वधिते मैनं हिसीरिति मन्त्रेण लोहेन क्षुरेणाभिपीडयति । अभि- निदधाति, गाढीकरोति, घनीकरोतीत्यर्थः । अथ लोहेनेति किमर्थम् । लोके लोहत एव क्षुरः सिद्धः । तस्माल्लौहग्रहणमपार्थकम् । उच्यते । सिद्धो लौहः क्षुरः । अत्र त्वयं लोहशब्द: विशेषार्थ उपदिश्यते । ताम्रमयेन कथं स्यादित्येवमर्थम् । कथं गम्यते । शास्त्रान्तरदर्शनात् । लोहशब्दस्त्वयं रजतादिष्वपि वर्तते । अत्र तु ताम्रे वर्तते । शास्त्रान्तरे विहितत्वात् ॥ ६ ॥ प्रच्छिनत्ति- 'येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्मान् जरदष्टिर्यथासत् ' ॥ अ० सं० ६. ६८. ३; ८ ५.२१ ) इति ॥ १० ॥ प्रशब्दो निपातः । छिनत्तीत्येतदेवोक्तं भवति । अन्ये पुनर्बुवते क्षिप्रार्थमिति । येनावपदित्यनेन मन्त्रेण ॥ १० ॥ 1 दक्षिणे- added in A, C, D. 3 अभिवासयति – A, C. 2 तान्येतानि – A, C, D. 4 अभिदधाति – A, C, D. • विशेषणार्थः –A, C, D.