सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः ६१ पश्चात् कारयिष्यमाणस्यावस्थाय शीतोष्णा अपः समा- नीय 'उष्णेन वाय उदकेनेहि' (अ० सं० ६.८१ ) इति ॥ ६ ॥ कारयिष्यमाणस्य पश्चिमे देशे स्थित्वा शीतोष्णा अपः समानयति । उष्णेन वाय उदकेनेहीति मन्त्रेण । तत्र समानयनं युगपदुभाभ्यां पाणि- भ्याम् । ननु च दक्षिणाङ्गकारिता विहन्यत इति । नेत्युच्यते । अन्य- तरेणानियमे प्राप्ते नियमार्था सा परिभाषा । तस्मादिहोभाभ्यां पाणिभ्यां युगपत् समानयनं कर्तव्यम् ।। ६ ।। तासां गृहीत्वा नवनीतं दधिद्रप्सान् वा प्रदक्षिणं शिर- स्त्रिरुन्दति-- अदितिः केशान् वपत्वाप उन्दन्तु वर्चसे इति ।।७।। तासामपामेकदेश' गृहीत्वा नवनीतं दधिद्रप्सान् वा । दधिद्रप्सानां च नवनीतस्य च विकल्पः । प्रदक्षिणं त्रिरुन्दति शिरः । उन्दति क्लेदयतीत्यर्थः । अदितिः केशान् वपत्वित्यनेन मन्त्रेण । तासामिति न वक्तव्यम् । कस्मात् । अधिकृतत्वात् तासामिति । नेत्युच्यते । अक्रियमाणे तासाग्रहणे तासां ग्रहणमेव न प्राप्नोति । एवं सति समानयनमपार्थकं स्यात् । उत्तरार्थं समानयनं क्रियते । ' शीतोष्णाभिरद्भिरबर्थं कुर्वाणः ' (१.१७ १७ ) इति । तेन तासां ग्रहणमवश्यं कर्तव्यम् । एकदेशग्रहणार्थं च ।। ७ ।। दक्षिणे केशपक्षे त्रीणि त्रीणि कुशपिलान्यभ्यात्माग्राणि निदधाति --- ' ओषधे वायस्वैनम्' ( तै० सं० १. २.१.१) इति ॥ ८ ॥ 1 एकदेशं --- omitted in A, C, D. 3 इत्यनेन मन्त्रेण - added in A, C. 2 61 समवनयनम् - A, C, D.