आश्वलायनगृह्यसूत्रभाष्यम् इत्यत्र सत्यपि समासोपदेशे एकमेव द्रव्यं प्रसज्यते । तत्राप्ययमेव संशयः । न भविष्यति । एकेन कृतार्थत्वात् । एवमिहापि एकद्रव्यं प्रसज्येत । तन्निवृत्त्यर्थं पृथग्ग्रहणम् । कथं पृथग्भूतानां सर्वेषां द्रव्याणां पृथक् पूर्णशरावाणि* निदधीयेरन्निति ।। ३ । पश्चात् कारयिष्यमाणो मातुरुपस्थ आनडुहं गोमयं नवे शरावे शमीपर्णानि चोपनिहितानि भवन्ति ॥ ४ ॥ । पश्चादग्नेः । कोऽसौ कारयिष्यमाणः । येन तत् कर्म प्रवर्तितम् । कः पुनरसौ । कुमारः । मातुरुपस्थेऽवस्थापितः । आनडुहं गोमयं नवे शरावे कृत्वा शमीपर्णानि चान्यस्मिन् शरावे कृत्वा पश्चादग्नेर्निदधाति ।। ४ ।। मातुः पिता दक्षिणत एकविंशतिकुशपिञ्जलान्यादाय ब्रह्मा वैतानि धारयेत् ॥ ५ ॥ तत्र' मातुर्दक्षिणतः पिता एकविंशतिकुशपिञ्जलानि गृहीत्वास्ते । अन्ये पुनर्बुवते । मातुरेव पिता दक्षिणत आस्ते । अग्नेर्दक्षिणतः । मातु- र्नान्यस्मिन् कर्मणि कर्ता पिता भवतीत्युपदेशः । तत्र तु कुमारस्यैव पिता दक्षिणतः । अथ मातुर्ग्रहणं किमर्थम् । कथं मातुर्दक्षिणतः पिता स्यादिति । अन्यथा हि अग्नेर्दक्षिणतः पिता स्यात् । "ब्रह्मा वैतानि धारयेत् । कानि । कुश पिञ्जलानि कुशतरुणकानीत्यर्थः । तान्येकविशंतिर्भवन्ति । ब्रह्मणा धारयितव्यानि भवन्ति । पिता वेति पक्षेण ।। ५ ।। A, C, D. 3. पूर्ण- 5 करिष्यमाण: A. 8 This sentence 1 Omitted in A, C, D. 2 Repeated in B. 4 कुशपिञ्जुलादि -- added in B. 7 Omitted in A, C, D. 9 Omitted in A, C, D. 11 This sentence is omitted in B. 6 अब omitted in B. is omitted in B. A, C, D. 10 तथाहि--
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१२९
दिखावट