सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः तृतीये वर्षे चौलम् ॥ १॥ τε जन्मनः प्रभृति यत् तृतीयं वर्षं - तस्मिन् तृतीये वर्षे चौलकर्म कर्तव्यम् ।। १ ।। यथाकुलधर्मं वा ॥ २ ॥ यस्मिन् वा काले कुलधर्मः तस्मिन् काले कर्मेदं कर्तव्यम् । तेन पूर्वेण कालेन सहायं विकल्प्यते । यस्यापि कुलधर्मत्वेनान्यः काल उपदिष्टः तस्यापि विकल्पेन तृतीये वर्षे भवति कुलधर्मोपदिष्टे वा काले । यस्य तु कुलधर्मत्वेन न कश्चित् कालश्चोदितस्तस्य तृतीय एव वर्षे भवति ॥ २ ॥ 7 उत्तरतोऽग्नेद्रोहियवमाषतिलानां पृथक् पूर्णशरावाणि निदधाति ॥ ३ ॥ अग्नेरुत्तरतो व्रीह्मादीनां द्रव्याणां शरावाणि पृथक् पृथक् पूरयित्वा निदधाति । स्थापयतीत्यर्थः । तत्र पृथग्ग्रहणं न कर्तव्यम् । द्रव्यभेदादेव शरावभेदः सिद्ध:' । तत्रैके दक्षिणाङ्गकारिताप्रतिषेधमुपदिशन्ति । कथ- मुभाभ्यां पाणिभ्यां स्थापनं स्यादिति । अन्ये पुनरसंसर्गार्थमित्युपदिशन्ति । तदिदमुभयं नोपपद्यते । कः पुनरर्थः । न " शरावभेदार्थं पृथग्ग्रहणम् । किंतु द्रव्यभेदार्थमेव । इह समासोपदेशान् मिश्रितानां पूरणं प्राप्नोति । अथवान्यतमस्य द्रव्यस्य भविष्यति । यथा --- ' व्रीहियवतिलै: ' (१.१०.८ ) 1 यस्तृतीयो वर्ष : ---- B. t 3 5 अपि बा - added in omitted in 7 Repeated in B. 10 Omitted A, C, D. A, C, D. 8 2 चौलं -- B. सह-- omitted in A, C, D. 6 वा--- added in A, C, D. 9 भेदे सिद्धे – A, C. पृथक् पृथक् omitted in A, C, D. in B. 11 शरावभेदार्थ:-4, C.