सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एह आश्वलायनगृह्यसूत्रभाष्यम् दधिमधुघृतमिश्रमन्नं प्राशयेत्-- 'अन्नपतेऽन्नस्य तो देानमीवस्य शुष्मिणः । प्र प्रदातारं तारिष ऊर्ज नो धेहि द्विपदे चतुष्पदे ॥ (वाज० सं० ११.८३ ) इति ।। ५ ।। अथ दध्यादिभिर्द्रव्यैरकामसंयोगेन प्राशयेत् । अन्नपत इत्ययं प्राश- नमन्त्रः । तत्र संशयः । किमयं प्राशन मन्त्रः अनन्तर एव प्राशने भवत्या- होस्वित् सर्वेषु प्राशनेष्विति । तत्रानन्तरविधानात् तत्रैव भवति । नेत्यु - च्यते । सर्वत्र भवितुमर्हति । यथाशमिह विहितं सर्वेषु भवति प्राशनेषु तद्वत् । किं पुनः कारणम् इहाम्नातः अन्यत्र भवितुमर्हतीति । नित्यमिदं प्राशनम् । पूर्वाणि कामसंयोगेन विधीयन्ते । कामसंयुक्ताश्चार्था विधीय- माना नित्यविकारिणो भवन्ति । इह च व्यञ्जनं कामसंयोगेन चोद्यमानं व्यञ्जनमेव विकरोति । यदन्यत् सर्वं नित्यमेव भवति । तेन मन्त्र ओदनश्च सर्वत्र भवतीति सिद्धम् । एवं ते ब्रुवतो दोषः । यत्र सव्यञ्जन ओदन उपदिश्यते तत्र मन्त्रो न प्राप्नोति । यथा ' घृतौदनं तेजस्काम : ' इति । प्राप्नोतीत्युच्यते । कस्मात् । तुल्यत्वात् कामसंयोगस्य । तेनान्यैर्व्यञ्जनैः समधर्मो भवति स उपदेश: । अतश्च प्राप्नोति । प्राशने विहितत्वान्मन्त्रस्य । तेन यत्न प्राशनं तत्र मन्त्रः कर्तव्यः । घृतौदने च प्राशनं कामसंयोगेन दृष्टम् । तस्माद् भवति ।। ५ ॥ आवृतैद कुमायें ॥ ६ ॥ / कुमार्या आवृता इदं कर्म कर्तव्यम् । अमन्त्रकमित्यर्थः ।। ६ ।। इति प्रथमे षोडशी कण्डिका 1 दध्यादिद्रव्यैः -- A, C, D. 2 यथाल -- B.