प्रथमोऽध्यायः आज मन्नाद्यकामः ।। २ ।। ८७ अजस्येदमाजम् । तत्र आजमिति तद्धितनिर्देशात् संदेहः । अजायाः क्षीरं मांसं दधि घृतमिति । तत्र मांसमित्युच्यते । कुतः । तैत्तिरेण सहोपदेशान्मन्यामहे मांसमिति ।। २ ।। तैत्तिरं ब्रह्मवर्चसकामः ॥ ३ ॥ 'प्राशयेत् । तत्त्रोच्यते । किमनयोर्व्यञ्जनत्वेनोपदेशः आहोस्वि- दन्नत्वेन । किं चातः । यदि तावद् व्यञ्जनत्वेनोपदेशः अन्नत्वेनान्यत् 'कल्पनीयम कामसंयोगेन । अथान्नत्वेन एतावदेव प्राशयेत् । तत्र तु व्यञ्जनत्वेनोपदेशः । लोके व्यञ्जनत्वेन दृष्टत्वात् । तद्वदिहापि व्यञ्जने एते भवतः ॥ ३ ॥ घृतौदनं तेजस्कामः ॥ ४ ॥ वृतौदनं तेजस्कामः प्राशयेत् । तत्र संशयः । किं घृतमिश्र ओदनो घृतोदन आहोस्विद् घृतेन संस्कृत इति । उच्यते । घृतेन संस्कृत ओदनो घृतौदन इति । कथं गम्यते । ओदनग्रहणात् । यदि घृतमिश्र ओदनोऽभि- प्रेतः स्यात् घृतं तेजस्काम इत्येवं ब्रूयात् । नन्वेवं सति घृतमात्रस्यैव प्राशनं स्यात् । न भविष्यति । कस्मात् । यथा पूर्वयोर्व्यञ्जनत्वेनोपदेशः क्रियते । एवमिहापि व्यञ्जनत्वेनोपदेशः कल्प्येत । एवं सिद्धे यदोदनग्रहणं करोति तज्ज्ञापयति घृतेन संस्कृत ओदनो घृतौदन इति ॥ ४ ॥ } -- B. 4 एतावेव - - A, C, D. 1 Omitted in A, C, D. 2 प्राश्नीयात् -- D. 8 कल्पयितव्यम्
- लोकेऽपि -- D.
6 तद्वत्Srkris (सम्भाषणम्) २१:४६, ६ डिसेम्बर् २०२४ (UTC)omitted 8 इत्येव A, C, D. 9 कल्प्यते - 7 दध्योदनमिन्द्रियकामो मध्वोदनमायुष्कामः क्षीरौदनं पशुकाम:-- in A, B. added in B between lines. A, C, D.