सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ आश्वलायनगृह्यसूत्रभाष्यम् जातम् ' (१.१४. १ ) इति वचनात् । तेन विशेषोपदेशः । यद्येवं कुमार्या- श्चेत्येवमस्तु । 'यतस्त्वावृद्ग्रहणं करोति तेन मन्यामहे -- अवश्यं विशेषेण भवितव्यमिति । किंच एवकारश्चात्र विद्यते । तस्मादावृत् तन्त्रमेव भवति । न मन्त्रः । यदुक्तमन्येष्वावृद्ग्रहणेषु मन्त्र इति । तन्न । विलक्षणत्वान्नि- देशस्य । तनावृद्ग्रहणमात्रमेव । अत्र त्वेवकारी नियमार्थ एव । तस्मात् कर्मणैव भवितव्यम् । न मन्त्रेण । एवं ते ब्रुवतो दोषः प्राप्नोति । तूष्णीं होमः स्यादिति । तत्रैके प्रतिपन्नाः । भवति होम: अमन्त्रक इति । वयं तु नैवम् । किं कारणम् । अदृष्टत्वात् । तस्मात् कर्मैव भवति न होमः । ननु च ' तूष्णीं द्वितीये उभयत्र ' (१.६. १० ) इति दृष्ट: । नेति । तत्र ' समन्त्रकः प्रकृतो होमः। इह् त्वमन्त्रकस्य प्रवृत्त्यैव भवितव्यमिति नोपपद्यते । तस्मादावृन्मात्रमेव भवति । न होमः प्राप्नोति ॥ १६ ॥ इति प्रथमे सप्तदशो कण्डिका एतन गोदानं षोडशे वर्षे ॥ १ ॥ एतेन चौलकर्मणा गोदानं व्याख्यातम् । तस्मिन् गोदाने ये विशे- षास्ते वक्ष्यन्ते । इदं तु कार्त्स्न्येन कर्म भवतीत्यर्थः ॥ १ ॥ केशशब्दे तु श्मश्रुशब्दान् कारयेत् ।। २ ।। . तन ये केशशब्दास्तेषु श्मश्रुशब्दाः कर्तव्याः । तत्र केशशब्द: ' केशान् वपतु' (१.१७. ७), ' वप्ता वपतु केशान्' ( १ १७ १६ ) इति च । अथ कस्माद् विलक्षणो निर्देश: एकलैकवचनेनान्यत्र बहुवचनेन । केशशब्दे त्वित्येकवचनं श्मश्रुशब्दानिति बहुवचनं ब्रवीति । अविवक्षितमेव यस्तावद् - B. 3 Omitted in A, C. — added in A, C. ..... 2 आवृन्मत्वमेव – A; आवृन्मात्रमेव -- B, D. 4 दृष्टो नेति तत्र - omitted in B.

  • करोति

एवेद – A, C, D.