पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • बृहस्पतिस्मृति: । *

सफलं जायते सर्वमिति शातातपोऽबूवीत् । न च दनो अहीनोऽतिस्नेहेन च तथाऽपरः ॥१७॥ बालाद्गृहीतो बद्धश्च बन्धुभिर्दत्त एव च । मातुः पुत्रो मित्रपुत्रः शिष्यश्चैव तथौरमः ॥१८॥ अपुत्रस्य च विज्ञेया दायादा नात्र संशयः । नवैते पुत्रवत्प न्याः परजोकप्रदा ह्यमी ॥१६॥ औरसेन समाज्ञेया वचसोदालकस्य च । इदानीं भागनिर्णयमृषिः शातातपोऽब्रवीत् ॥२०॥ ज्येष्ठेन वा कनिष्ठेन विभागस्य विनिर्णयः । समभागप्रदाता च अपुत्रेभ्यो न संशयः ॥२१॥ समभागो ग्रहीतव्यः पुत्रमत्या सदैव हि । पितृभ्यो प्रात्पुत्रेभ्यो दायादेभ्यो यथाक्रमात् । २२॥ अधिकस्य च भागौ द्वावितरेभ्यः समासतः । ओधौ. प्रतिग्रहे क्रान्ते पूर्वा तु बलवत्तरा ॥२३॥ सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया । समविद्योत्तरं चैव प्रत्यवस्कन्दनं तथा । २४॥ पूर्व न्यासविधिश्चैव उत्तरः स्याच्चतुर्विधः । साक्षिषभयतः सत्सु साक्षिणः पूर्ववादिनः ॥२५॥ पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः । असाचिव्यवहारेषु दिव्यं देयं यथाविधि ॥२६॥ इति श्रोयाम्ये धर्म शास्त्रे पञ्चमोऽध्यायः ।।५।। समाप्तेयं बृहद्यमस्मृतिः। ॐ तत्सद्ब्रह्मणे नमः। बृहस्पतिस्मृतिः। इष्टवा क्रतुशतं राजा समाप्तवरदक्षिणम् । मगवन्तं गुरुश्रेष्ठं पर्यपृच्छबृहस्पतिम् ॥१॥ मगवन्केन दानेन सर्वतः सुखमेधते । यदवयमहायं च तन्मे ब्रूहि महातप ॥२॥ एवमिन्द्रेण पृष्टोऽसौ देवदेवपुरोहितः । वाचस्पतिर्महाप्राज्ञो . बृहस्पतिरुवाच ह ॥३॥ सुवर्णदानं गोदानं भूमिदानं च वासव । एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ॥४॥ सुवर्ण रजतं वस्त्रं मणिरत्नं च वासव । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥५॥ फालकृष्टां महीं दया सबीजां सस्यशालिनीम । यावत्सूर्यकृता लोकास्तावत्स्वर्गे महीयते ॥६॥ यत्किंचित्कुरुते पापं पुरुषो वृत्तिकृर्षितः। अपि गोचर्ममात्रेण भूमिदानेन शुष्यति ॥७॥ दशहस्तेन दण्डेन त्रिंशदण्डैनिवर्तनम् । दश तान्येव विस्तारो गोचमैतन्महाफलम् ॥८॥ सतर्फ गोसहस्रं तु यत्र तिष्ठत्यतन्द्रितम् । बालवत्साप्रसूतानां तद्गोचर्म, इति स्मृतम् ॥६॥ दद्याच्च गुणान्विताय तपोभियुक्ताय जितेन्द्रियाय । यावन्मही विष्ठति सागरान्ता तावत्सलं- विप्राय CC.O- Jangamwadi Math Collection. Digitized by eGangotri