पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

अष्टादशस्मृतयः] mammnamar moramma त ७७

  • वृहद्यमस्मृतिः। * सासर्वप्रयत्नेन श्राद्ध यज्ञे च कर्मणि । प्रदेष्यं चव विप्रेन्द्रं योजनीयं प्रयत्नतः ॥४०॥ नशैव मन्त्र विद्यु क्तः शारीरः पक्तिदूषणैः । वर्जितं च यमः प्राह पङक्तिपावन एव सः ||४|| नितिसरः सदाचारः श्रोत्रियो ब्रह्मविद्य वा । विद्याविनयसंपन्नः पात्रभूतो द्विजोत्तमः ।।४२।। वेदान्तविज्ज्येष्ठसामा अलुब्धो वेदतत्परः । योजनीयः प्रयत्नेन दैवे पिये च कर्मणि । यदत्तं च

तं तस्मै ह्यनन्तं नात्र संशयः ॥४३॥ उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शुद्रण वा द्विजः । उपोष्य जिनीमेकां पञ्चगव्येन शुध्यति ॥४४॥ उच्छिष्टभाजनं येन विप्रेण चान्नवर्जितम । स्पृष्टं तेन प्रमादाच प्राजापत्यं समाचरेत् ।।४।।। उच्छिष्टोच्छिष्टसंस्पृष्टो वाह्मणो बामणेन हि । दशरुद्री जपेत्पश्चाद्वायच्या शोधनं परम् । ४६॥ उच्छिष्टोच्छिष्टसंस्पृष्टः क्षत्रियो वैश्य एव च । प्रमादोच्छिष्टमंस्पतः शूद्रेण तु यदा द्विजः॥४७॥ उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति । श्वानकुक्कुटमाजोराः काको वा स्पृशते यदि ॥४८॥ उच्छिष्टं तं द्विजं यस्तु अहोगत्रेण शुध्यति । पञ्चगव्येन शुद्धिः स्यादित्याह भगवान्यमः ॥४३॥ रजस्वला स्पृशेषस्तु त्रिरात्रं तत्र कारयेत् । ओष्य द्विजसंस्कारं पश्चगव्येन शुध्यति ॥५०॥ उदक्यादृष्टिपातेन श्रत राब्देन चैव हि । स्नानं देवार्चनं दानं हवनं च प्रणश्यति॥५१॥ रक्तवस्त्रस्य विक्रेता लावारजकमेव च । वेणुजीवनकैवर्ततक्षचर्मोपजीविनः ॥५२॥ एतेषां स्पर्शनात्पापं तथा चैव तु मोहितः। प्रतिग्रहाच्च विप्रो वै नरकं प्रति गच्छति ॥५॥ उदक्याः स्पर्शने चैव वामणो वै प्रमादनः । षडात्रोपोषितः स्नात्वा पश्चगव्येन शुध्यति ॥५४॥ सूतके वर्तमानेऽपि दासवर्गस्य का क्रिया । स्वामितुल्यं भवेत्तस्य सूतकं तु प्रशस्यते ॥५॥ यन्न कारयते तत्तन्नान्यं प्रत्यब्रवीद्यमः । विवाहोत्सवयज्ञेषु कार्ये चैवमुपस्थिते ॥५६॥ रजः पश्यति या नारी तस्य कालस्य का क्रिया : विपुले च जले स्नात्वा शुक्रबासास्त्वलंकृतो ॥५७॥ आपोहिष्ठेत्यगभिषिक्ताऽऽयं गोरिति वा ऋचः । पूजान्ते होमयेत्पश्चाद्धृताहुत्या शताष्टकम :॥५८॥ गायच्या व्याहृतिभिश्च ततः कर्म समाचरेत् । यावद्विजा न चाय॑न्ते अन्नदानहिरण्यकैः ॥६॥ तावचीर्णव्रतस्यापि तत्पापं न प्रणश्यति ।६०॥ यदेहक काकवलाकविल्लामध्येन लिप्तं तु भवेत्कदाचित् । श्रोत्रे मुखे वा परिमस्तके वा ज्ञानेन लेपोपहतस्य शुद्धिः ॥६॥ अभक्ष्याणामपेयानामलेह्यानां च भक्षणे। रेतोमूत्रपुरीषाणां प्रायश्चितं कथं भवेत् ॥६२॥ पद्मोदुम्बरविल्यानां कुशाश्वत्थपलाशयोः । एतेषामुदकं पीत्वा पञ्चगव्येन शुध्यति ॥६३:। स्त्रीणां रजस्वलानां च स्पशश्चैव भवेद्यदि । चतुर्णामपि वर्णानां प्रायश्चित्तं कथं भवेत् ॥६४॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं सगोत्रा चान्यगोत्रका | कामादकामना वाऽपि त्रिरात्राच्छुद्धिरिष्यते ॥ ट्विा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्रिया तथा । अर्धकृच्छ चरेत्पूर्वा पादकृच्छ तथोत्तरा॥६६॥ दवा रजस्वलाऽन्योन्यं बाह्मणी वैश्विनी तथा । पादहीनं चरेत्पूर्वा पादमेकं तथोत्तरा ॥६७॥ ट्वा रजस्वलाऽन्योन्यं बामणी शुद्रिणी तथा । कृच्छण शुध्यते शूद्री ब्राह्मी दानेन शुध्यति ॥ स्पृष्टो निशायां तूदक्यया पतितेन वा। दिवाऽऽनीतेन तोयेन स्नापयेदग्निसंनिधौ ॥६६॥ CC.0- Jangamwadi Math Collection. Digitized by eGangotri