पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अष्टादशस्मृतयः स ७६

  • बृहद्यमस्मृतिः *

दासनापितगोपालकुलमित्रार्धसीरिणः । एते शूद्रास्तु भोज्याना यश्चाऽऽत्मानं निवेदयेत् ॥१०॥ असच्छूद्रषु अन्नाय ये भुञ्जन्त्यबुधा द्विजाः । प्रायश्चित्तं तथा प्राप्तं चरेच्चान्द्रायणवतम् । ११॥ यः करोत्येकरात्रेण वृषलीसेवनं द्विजः । तद्भक्षणे जपेनित्यं त्रिभिव्य पोहति । १२। वृषली यस्तु गृह्णाति ब्राह्मणो मदमोहितः। सदा सूतकिता तस्य ब्रह्महत्या दिने दिने । १३॥ वृपली गमनं चैव मासमेकं निरन्तरम् । इह जन्मनि शूद्रनं पुनः श्वानो भविष्यति ॥१४॥ वृषलीफेनपीतस्य निश्वासोपगतस्य च । तस्यां चैव प्रसूतस्य निस्कृतिर्न विधीयते ॥१५॥ अग्रे माहिषकं दृष्ट्वा मध्ये च वृपलीपतिम् । अन्ते वाधु षिकं दृष्ट्वा निराशाः पितरो गताः ॥१६॥ महिषीत्युच्यते भार्या सा चैत्र व्यभिचारिणी । तान्दोषान्क्षमते यस्तु स वै माहिषकः स्मृतः ॥१७॥ पितुगैहे तु या कन्या पश्यत्यसंस्कृता रजः । भ्रूणहत्या पितुस्तस्य कन्या सा वृषली स्मृता ।।१८। यस्ता विवाहयेत्कन्यां ब्राह्मणो मदमोहितः । असंभाष्यो ह्यपाङक्तेयः स विप्रो वृषलीपतिः ॥१६॥ प्राप्ते द्वादशमे वर्षे कन्यां यो न प्रयच्छति ।मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥२०॥ अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी । दशवर्षा भवेत्कन्या अत ऊवं रजस्वला ॥२१॥ माता चैव पिता चैव ज्येष्ठम्राता तथैव च । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्या रजस्वलाम् ॥२२॥ समर्घ धनमुत्सृज्य महर्ष. यः प्रयच्छति । स वै वाधु षिको ज्ञेयो ब्रह्मवादिषु गर्हितः ॥२३॥ शुक्रक्षयकरावन्ध्या त्याज्येति परिकीर्तिता । तस्यास्तु यो भवेद्भर्ता तं तु विद्यादजाविकम ॥२४॥ दूराच्छान्तं भयग्रस्तं ब्राह्मणं गृहभागतम् । अनचयित्रो यो भुङ्क्ते तत्क्षणेऽसौ विधीयते ॥२५॥ अजाविको माहिपश्च तथा च वृपलीपतिः। तणाग्रेणापि संस्पृष्ट्वा सवासा जलमाविशेत् ॥२६॥ यावदुष्णं भवेदन्नं यावद्भुञ्जन्ति वाग्यताः । पितरस्तावदश्नन्ति यावनोक्ता हविगुणाः ॥२७|| हविर्गुणा न वक्तव्याः पितरो यान्त्यतर्पिताः। पितमिस्तपिनैः पश्चाद्वक्तव्यं शोभनं हविः ॥२८॥ यावतो असते ग्रासान्हव्यकव्येष्वमन्त्रितः । तावतो असने प्रेत्य दीप्तान्यासानयोमयान् ।।२६।। आसनेष्वासनं दद्यान्न तु हस्ते कदाचन । हस्तेष्वासनदाने च निराशाः पितरो गताः ॥३०॥ आसने पादमारूढो वस्त्रस्यार्धमधः कृतम् । मुखेन धमितं भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥३१॥ अंगुल्यां यः पवित्राणि कृत्वा गन्धान्समर्ययेत् । पितॄणां नोपतिष्ठेत राक्षसैविप्रलुप्यति ॥३२॥ हपन्यासं च यो भुङ्क्ते सशब्दं सेङ्गितं तया । लेहितं वर्तितं चैव षडेते पङ्क्तिदूषकाः ॥३३॥ श्वित्री कुष्ठी तथा शूली कुनखी श्यावदन्तकः । रोगी हीनातिरिक्ताङ्गः पिशुनो मत्सरी तथा ॥३४॥ दुर्भगो हि तथा पण्ढः पाखण्डी वेदनिन्दकः । हैतुकः शूद्रयाजी च अयाज्योनां च याजकः ॥३५॥ नित्यं प्रतिग्रहे लुब्धो याचको विषवात्मकः । श्यावदन्तोऽथ वैद्यश्च असदालापकस्तथा ॥३६॥ एते श्राद्ध च दाने च वर्जनीयाः प्रयत्नतः । तथा देवलकश्चैव भृतको वेदविक्रयी ॥३७॥ एते वा प्रयत्नेन एवमेव यमोऽब्रवीत् । निराशाः पितरस्तस्य भवन्ति ऋणमागिनः ॥३८॥ अथ चेन्मन्त्र विद्यु क्तो वैष्णवो ज्ञानवान्हि सः । हव्यकव्ये नियोक्तव्य इति प्राह स्वयं यमः॥३६॥ रा ग वा दा अम पद् स्त्री स्पृष्ट स्पृष्टा विपक्ष CC.O- Jangamwadi Math Collection. Digitized by eGangotri