सामग्री पर जाएँ

पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • गोमिलस्मृतिः। *

५३ कालः कात्यायनेनोक्तो विधिश्चैव समासतः वृपोत्सर्गे यतो नात्र गोभिलेन तु भाषितः ॥१०॥ पारिभाषिक एव स्यात्कालो गोवाजियज्ञयोः । अन्यस्यानुपदेशाच्च स्वस्तवारोहणस्य च ॥१०१॥ अथवा मार्गपाल्येऽह्नि कालो गोयज्ञकर्मणः । नीराजनेऽह्नि वाऽश्वानामिति तन्त्रान्तरे विधिः ॥१०२॥ शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥१०॥ आश्वयुज्यां तथा कृष्यां वास्तुकर्मणि याज्ञिकाः । यज्ञार्थतत्त्ववेत्तारो होममेवं प्रचक्षते ॥१०४॥ द्वे पञ्च क्रमेणैता हविराहुनयः स्मृताः । शेषा आज्येन होतव्या इति कात्यायनोऽब्रवीत् ।।१०५॥ पयो यदाज्यसंयुक्तं तत्पृषातक उच्यते । दध्ये कतदुपासाद्य कर्तव्यः पायसश्चरुः ॥१०६॥ व्रीहयः शालयो मुद्दा गोधूमा:सर्पपास्तिलाः । यवाचौषधयः सप्त विपदं नन्ति धारिताः ॥१०७॥ संस्काराः पुरुषस्यैते स्मर्यन्ते गौतमादिभिः । अतोऽष्टकादयः कार्याः सर्वे कालक्रमादितः ॥१०॥ सकृदप्यष्टकादीनि कुर्यात्कर्माणि यो द्विजः । स पक्तिपावको भूत्वा लोकान्पैति घृनश्चुतः।।१०६॥ एकाहमपि कर्मस्थो योऽमशुश्रूषकः शुचिः । नयत्पत्रवदेवास्य शताहं दिवि जायते ॥११०॥ यस्त्वाधायाग्निमाशास्य देवादीभिरिष्टवान् । निराकर्ताऽमरादीनां स विज्ञेयो निराकृतिः ॥११॥ यच्छ्राद्धं कर्मणामादौ यागान्ते दक्षिणा भवेत् । आमावास्यं द्वितीयं यदन्वाहायं तदुच्यते ॥११२॥ एकसाध्येष्वबर्हिःषु न स्यात्परिसमूहनम् । नोदगासादनं चैव क्षिप्रहोमादि तेमता ॥११३॥ अभावे व्रीहियवयोर्दना वा पयसाऽपि वा। तदभावे यवाग्वा वा जुहुयादुदकेन वा ॥११४॥ रौद्रं तु राक्षसं पित्र्यमासुरं चाऽऽभिचारिकम् । उक्त्वा मन्त्रं स्पृशेदाप अोलभ्याऽऽत्मानमेव च ॥११॥ यजनीयेऽह्नि सोमश्चेद्वारुण्यां दिशि दृश्यते । तत्र व्याहृतिभिहुत्वा दण्डं दद्याद्विजातये ॥११६॥ लवणं मधुमांसं च क्षाराचो येन हूयते । उपवासे न भुञ्जीत नोरात्रौ कथंचन ॥११७॥ स्वकाले सायमाहुतेरप्राप्ती होत हव्ययोः । प्राक्मातराहुतेः कालः प्रायश्चित्ते हुते सति ॥११॥ प्राक्सायमाहुतेः प्रातहोमकालामतिक्रमः । प्राक्पूर्णमासाद्दर्शस्य प्राग्दर्शादितरस्य तु ॥११॥ वैश्वदेवे त्वतिक्रान्ते अहोरात्रमभोजनम् । प्रायश्चितमयो हुत्वा पुनः संतनुयाद्भुतम् ॥१२०॥ होमद्वयात्यये दर्शपौर्णमासात्यये तथा । पुनरेवाग्निमादध्यादिति भार्गवशासनम् ॥१२॥ अनुचो मानवो ज्ञेय एणः कृष्णमृगः स्मृतः। रुरुगौरमृगः प्रोक्त स्तम्बनशण उच्यते ॥१२२॥ केशान्तिको बामणस्य दण्डः कार्य प्रमाणतः । ललाटसमितो राज्ञः स्योत्तु नासान्तिको विशः ॥१२॥ ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । अनुद्वेगकरानृणां सत्त्वचोऽनग्निदूषिताः ॥१२४॥ गौर्वशिष्टतमा विप्रैवेदेष्वपि निगद्यते । न ततोऽन्यद्वरं यस्मात्तस्माद्गौर्वर उच्यते ॥१२॥ येषां बतानामन्तेषु दक्षिणा न विधीयते । वरस्तत्र भवेदानमपि वाऽऽच्छादयेद्गुरुम् ।।१२६॥ अस्थानोश्वासविच्छेदघोषणाध्यापनादिकम् । प्रामाणिकश्रुतौ यस्माघातयामत्वकारि तत् ॥१२७॥ प्रत्यन्दं यदुपाकर्म सोत्सर्ग विधिवद्विजैः । क्रियते छन्दसां तेन पुनराप्यायनं भवेत् ॥१२॥ Fel अयातयामैश्छन्दोभिर्यत्कर्म क्रियते द्विजैः । क्रीडमानैरपि सदा तत्तेषां सिद्धिकारकम् ॥१२६॥ 31 बा CUT CC.O- Jangamwadi Math Collection. Digitized by eGangotri