पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतिः]

  • अत्रिस्मृतिः *

२७ पूर्णे वर्षसहस्र तु जायते ब्रह्मराक्षसः ॥२१॥ जले सबो वा भवति कुलस्योत्सादनेन च । पतत्यर्धशरीरेण यस्य भार्या सुरा पिवेत् ॥२२॥ पतितार्धशरीरस्य निष्कृतिर्न विधायते ॥२३॥ इत्यात्रेये धर्मशास्त्रेऽष्टमोध्यायः ।।८।। -Dos. [अथात्रिस्मृतौ नवमोऽध्यायः।] यो ध्याता यच्च यद्ध्यानं यद्ध्येयं यत्प्रयोजनम् । सर्वाण्येतानि नो वेत्तिः स योगं योक्तुमर्हति ॥१॥ आत्मा ध्याता मनो ध्यानं ध्येयः सूक्ष्मो महेश्वरः । यत्परापरमैश्वर्यमेतद्ध्यानप्रयोजनम् ॥२॥ विदित्वा सर्वसूक्ष्माणि षडङ्गं च महेश्वरम् । प्रधानगुणतत्त्वज्ञः परं ब्रह्माधिगच्छति ॥३॥ विद्वेषादपि गोविन्दं दमघोषात्मजः स्मरन् । शिशुपालो गतः स्वर्ग किं पुनस्तत्परायणः ॥४॥ उपलब्धिः स्मृतिानं संकल्पः प्रणवं प्रति । कल्पना भावना चिन्ता ध्यानमित्यभिधीयते ॥शा प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा । तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥६॥ यस्त्विदं पठते शास्त्रं विप्रेभ्यश्च प्रयच्छति । मुच्यते सर्वपापेभ्यो ब्रह्मलोकं स गच्छति ॥७॥ इत्यानेये धर्मशास्त्रे नमोऽध्यायः ।।६।। अत्रिस्मृतिः समाप्ता॥ घ माह CC.0- Jangamwadi Math Collection. Digitized by eGangotri